SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २ जवनिकान्तरम् ] कर्पूरमञ्जरी । Acharya Shri Kailassagarsuri Gyanmandir संमुहपवणपणोलि अवरिछदरदाविआइँ अंगाइँ | हक्कारिऊण मअणं पासम्मि णिवेसअंति ब्ब ॥ ३६ ॥ ताडंकजुअं गंडेसु बहलघुसिणेसु घडणलीलाहिं । ts or दोलदोलण हाओ गणणकोडेण || ३७ ॥ णअणाइँ पसइसरिसाइँ झत्ति फुडाइँ को दुहल्लेण । अप्पेंतिअ व्त्र कुवलअसिलीमुहे पंचबाणस्स ॥ ३८ ॥ दोलारअविच्छेओ कहं वि मा होउ इत्ति पडइ ब्ब । पुदृम्मि वेणिदंडो मम्महचम्मद्विआअंतो ॥ ३९ ॥ इआइँ विलासुज्जलाइँ दोलाप्पवंचचरिआई | कस्स ण लिहेइ चित्ते णिडणो कंदप्पचित्तअरो ॥ ४० ॥ संमुखपवन प्रेरित परिवस्त्रे दरदर्शितान्यङ्गानि । आकार्य मदनं पार्श्वे निवेशयन्तीव ॥ अत्रापि स एवालंकारः । ताटङ्कयुगं गण्डयोर्बहलघुसृणयोर्घटनलीलाभिः । ददातीव दोलान्दोलनरेखा गणनकौतुकेन ॥ अत्राप्युत्प्रेक्षालंकारः । नयने प्रसृतिसदृशे झटिति फुले कौतूहलेन । अर्पयत इव कुवलयशिलीमुखे पञ्चवाणस्य || कुवलये एव शिलीमुखौ शरौ । कुसुमशरत्वात्तस्येति भावः । रूपकमुत्प्रेक्षा चालंकारः । तलक्षणं तु पूर्वोक्तमेव । दोलारसविच्छेद: कथमपि मा भवत्विति पततीव । पृष्ठे वेणिदण्डो मन्मथचर्मयष्टिकायमानः || अत्रापि रूपकोत्प्रेक्षे | इत्येतानि विलासोज्ज्वलानि दोलाप्रपञ्चचरितानि । कस्य न लिखति चित्ते निपुणः कंदर्पचित्रकरः ॥ ५९ इत्यमुना प्रकारेणैतानि दोलाप्रपञ्चचरितानि कर्मभूतानि कंदर्पचित्रकरः कर्ता कस्य कामिनश्चित्ते न लिखति । अपि तु सर्वस्यापीत्यर्थः । किंभूतानि । विलासा उज्ज्वलाः शुचयो येषु तानि । विलास उज्ज्वलश्च येषु तानीति वा । ' शृङ्गारः शुचिरुज्ज्वलः ' इति कोषात् । अत्र रूपकम् । For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy