SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५८ काव्यमाला। विदूषकः-भो, सुत्तआरो तुमं । अहं उण वित्तिआरो भविष वित्थरेण वण्णेमि । उवरिहिअथणपन्भारपीडिअं चरणपंकजजुअं से । पुक्कारइ ब्ब मअणं रणंतमणिणेउररवेण ॥ ३३ ॥ हिंदोलणलीलाललणलंपडं चक्कचक्कलं रमणं । किलकिलइ ब्ब सहरिसं कंचीमणिकिंकिणिरवेण ॥ ३४ ॥ दोलंदोलणलीलासरंतसरिआछलेण से हारो। वित्थारइ ब्ब कुसुमाउहणरवइणोइ कित्तिवल्लीओ ॥ ३५ ॥ विलोलवलयावलीजनितम शिञ्जारवं ___ न कस्य मनोमोहनं शशिमुख्या हिन्दोलनम् ॥ शशिमुख्या हिन्दोलनं कस्य कामिनो मनोमोहनं न । मनो मानसं मोहयति तदेतादृशं न । अपि तु सर्वस्यापीति काकुः । किंभूतम् । रणन्तो मणयो ययोस्ते रणन्मणी, रणन्मणी नपुरे यत्र तत्। झणझणायमाना हारच्छटा यत्र । इत्यादीनामान्दोलनविशेषणत्वम् । अथवा क्रियाविशेषणानि । यद्वा शशिमुख्या रणनूपुरादिकस्य मनोमोहनं नैति प्रत्येकमेव विधिः । तदा दोलनांशे प्रत्यक्षमन्यांशे स्मरणम् । 'रण शब्दे'। झणझणायमानमित्यादि शब्दानुकरणम् । अत्राप्यनुप्रासजात्याद्याः शब्दार्थालंकारा ज्ञेयाः । विदूषकः-- भोः, सूत्रकारस्त्वम् । अहं पुनर्वृत्तिकारो भूत्वा विस्तरेण वर्णयामि । सूचनाद्धि सूत्रत्वं भवतीति भावः । अत एव तल्लक्षणमुक्तमाभियुक्तै:--'अल्पाक्षरमसंदिग्धं सारवद्विश्वतोमुखम् । अस्तोभमनवद्यं च सूत्रं सूत्रविदो विदुः ॥' इति । उपरिस्थितस्तनप्राग्भारपीडितं चरणपङ्कजयुगं तस्याः । । पूत्कारयतीव मदनं रणन्मणिनूपुररवेण ॥ एतन्मणिनपुररवश्रवणसमकालमेव कामिनां मदनकृता मनोविह्वलता भवतीति भावः । अत्रापि जात्युत्प्रेक्षे अलंकारौ।। हिन्दोलनलीलाललनलम्पटं चक्रवर्तुलं रमणम् । किलकिलायतीव सहर्ष काञ्चीमणिकिङ्किणिरवेण ॥ अत्रापि किलकिलायतीति शब्दानुकरणम् । रमणं जघनम् । दोलान्दोलनलीलासरत्सरिकाछलेनास्या हारः । विस्तारयतीव कुसुमायुधनरपतेः कीर्तिवल्लीः ॥ सरिका मुक्तापतिः । अत्रोत्प्रेक्षालंकारः । For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy