SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २ जवनिकान्तरम् कर्पूरमञ्जरी। अवि अ। उच्चेहिं गोउरेहिं धवलधअवडाडंबरिल्लावलीहिं घंटाहिं विदुरिल्लासुरतरुणिविमाणाणुरूअं वहंती । पाआरं लंघअंती कुणइ रअवसादुण्णमंती णमंती एंती जंती अ दोला जणमणहरणं कट्टणुक्कट्ठणेहिं ॥ ३१ ॥ अवि अ। रणंतमणिणेउरं झणझणंतहारच्छडं कलक्कणिदकिंकिणीमुहरमेहलाडंबरं । विलोलवलआवलीजणिदमंजुसिंजारवं ण कस्स मणमोहणं ससिमुहीअ हिंदोलणं ॥ ३२ ॥ विच्छाययन्विगतच्छायानि कुर्वन् । म्लानीकुर्वन्नित्यर्थः । कान्तिरेव ज्योत्स्ना चन्द्रिका तस्या जलं चाकचक्यं तेन गगनं खमेव कुहरं क्षालयन्प्रकाशयन् । जलेन क्षालनमुचितमेवेति भावः । सरलतरल इत्यान्दोलनवशाद्यातायातमाचरन्नित्यर्थः । अत्र रूपकच्छे. कावृत्त्यनुप्रासरूपाः शब्दार्थालंकारा विभाव्या: । स्पष्टमन्यत् । आप च । उच्चेषु गोपुरेषु धवलध्वजपटाडम्बरबहलावलीषु घण्टाभिर्विद्राणसुरतरुणिविमानानुरूपं वहन्ती । प्राकारं लङ्घयन्ती करोति रयवशादुन्नमन्ती नमन्ती आयान्ती यान्ती च दोला जनमनोहरणं कर्षणोत्कर्षणैः ।। धवलध्वजपटाडम्बराणां बहला आवल्यो येषु तादृशेषु गोपुरेषु पुरद्वारेषु घण्टाभिरुपलक्षितं विद्राणं वेगेन गच्छद्यत्सुरतरुणिविमानं देवाङ्गनाविमानं तदनुरूपं तत्तुल्यं प्राकारं वहन्ती बिभ्राणा । कर्षणोत्कर्षणै: रयवशाल यन्ती । सरलगमनादुन्नमन्ती उर्व गच्छन्ती नमन्ती पुनरधो यान्ती आयान्ती यान्ती चेयं दोला कस्य कामिनो मनोहरणं न करोति । अपि तु सर्वस्य विधत्त इति काकर्थः । इयं च दोलास्वरूपवर्णमाज्जातिः। तल्लक्षणं काव्यादर्शे दण्डिनोक्तम्-'नानावस्थं पदार्थानां रूपं साक्षाद्विवृण्वती। स्वभावोक्तिश्च जातिश्चेत्याद्या सालंकृतिर्यथा ॥' इति । उपमानुप्रासादयोऽन्येऽप्यलंकारा ज्ञेयाः । अपि च । रणन्मणिनूपुरं झणझणायमानहारच्छटं कलक्कणितकिङ्किणीमुखरमेखलाडम्बरम् । For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy