________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५४
काव्यमाला।
किं कजं कित्तिमेण व्विरअणविहिणा सो णडीणं विडंबो
तं चंगं जं णिअंगं जणमणहरणं तेण सीमंतिणीओ। जस्सि सब्बंगसंगो सअलगुणगणो सो अदंभो अलंभो
तस्सि णेच्छंति काले परमसुहअरे किं पि णेवच्छलच्छी ॥ २८॥ विचक्षणा–देव, एदं विण्णवी अदि--ण केवलं देवीए णिओएण तिस्सा अणुगदह्मि । तारामेत्तीए वि सहित्तणं पत्ता कप्पूरमंजरीए । तेण तकज्जसज्जा अहं पुणो वि ओलग्गाविअ भविअ णिवेदइस्सं । सुप्राजलः सुसरलः । तथा च चातुर्यलेशोऽपि तव नास्तीति भावः । किं कार्य कृत्रिमेण विरचनविधिना स नटीनां विडम्ब
स्तच्चङ्गं यन्निजाङ्गं जनमनोहरणं तेन सीमन्तिन्यः । यस्मिन्सर्वाङ्गसङ्गः सकलगुणगणः सोऽदम्भोऽलभ्य
स्तस्मिन्नेच्छन्ति काले परमसुखकर कामपि नेपथ्यलक्ष्मीम् ॥ कृत्रिमभूषाभिर्नटोनामेवा पाततः सौन्दर्यमुल सति न पुन: सीमन्तिनीनामित्यर्थः । यचङ्गं समीचीनं तदेव निजाङ्ग स्वस्याङ्गमाहादकगित्याहादकत्वविशिष्टाऽङ्गमात्रवाच. कानपदवाच्यसंक्रमादयमर्थान्तरसंक्रमितवाच्यो लक्षणामलो ध्वनिः । तेन स्वाभावि. काङ्गसौन्दर्येणैव सीमन्तिन्यः कुलाङ्गना जनमनोहरणं भवन्तीत्यर्थः । यद्यपि जनमनोहरणमिति भिन्नलिङ्गवचनं पदं न सीमन्तिन्य इति पदस्य विशेषणत्वमर्हति, तथापि वस्तुपदाध्याहारेण योज्यम् । तस्य चाजहडिङ्गत्वान दोष इति ध्येयम् । अथवा जनमनोहरणमिति काकाक्षिगोलकन्यायेनोभयत्र संपध्यते । तथा च यनिजाझं स्वाभावि. काङ्गं चङ्गं तदेव जनमनोहरणं भवतीत्यर्थः । यदा पूर्वत्रैव संध्यते तदा च तेन स्वाभा. विकाङ्गचङ्गत्वेनैव सीमन्तिन्यो भवन्ति । तासामुत्तमसीमन्तिनीत्वं भवतीत्यर्थः । तथा च सीमन्तिनीपददाच्यस्येवोत्तमत्व विशिष्टे तस्मिन्संक्रमादत्राप्यन्तरसंक्रमितवाच्यो ध्वनिः । यस्मिन्काले सकल: संपूर्णो गुणानां गण: समूहः सर्वाङ्गसङ्गः सर्वेष्वङ्गेषु सङ्गो यस्य तादृशः, अदम्भः न विद्यते दम्भो यत्रासावदम्भः स्वाभाविकः, अलभ्योऽप्राप्यो. ऽस्ति, अथ च तस्मिन्काले सुखकरे कामपि नेपथ्यलक्ष्मी नेच्छन्ति । विदग्धा इति शेषः। निजाङ्गमित्येकवचनेनैकमपि स्वाभाविकसुन्दरमङ्गं लोकहृदयहरणसमर्थ किमुत सर्वाङ्गाणीति ध्वन्यते । अत्र च नटीसीमन्तिन्योयतिरेकालंकारो व्यायः । छेकवृत्त्यनुप्रासालंकारावप्यत्र बोध्यौ तल्लक्षणं प्रागेवोक्तम् । विचक्षणा
देव, एतद्विज्ञाप्यते न केवलं देव्या नियोगेन तस्या अनुगतास्मि । तारामैत्र्यापि सखीत्वं प्राप्ता कर्पूरमार्याः । तेन तत्कार्यासक्ताहं पुनरपि सेवकीभूय निवेदयिष्यामि ।
For Private and Personal Use Only