SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला। हिअआवेअं । (प्रकाशम् ।) दिहिं देउ महाराओ ईसीसि जरठाप्रमाणे कुसुमाअरम्मि। मूलाहिंतो परहुअवहूकंठमुदं दलंता देता दीहं महुरिमगुणं जप्पिए छप्पआणम् । संचारंता विरहिसु णवं पंचमं किंच राअं राउम्मत्ता रइकुलघरा वासरा वित्थरंति ॥ २ ॥ राजा-(तदेवाकर्ण्य सानुरागम् ।) अत्थाणीजणलोअणाण बहला लावण्णकल्लोलिणी लीलाविब्भमहासवासणअरी सोहग्गपालिहिआ । आवेगशब्देन यद्यपि सर्वथा नास्य तन्मनस्कता निराकर्तुं शक्यते, तथापि विषयान्तरसंचारेण किंचिच्छिथिलयामीति चोच्यते । दिट्टिमिति । दृष्टिं ददातु महाराज ईषदीषज्जरठायमाणे कुसुमाकरे। कुसुमानामाकर उत्पत्तिस्थानमित्यर्थः । कुसुमानामाकरः समूहो यस्मिन्निति वा । कुसुमैराकर इति वा । ‘आकरो निवहोत्पत्तिस्थानश्रेष्ठेषु कथ्यते।' इति विश्वः । मूलेति। मूलात्प्रभृति परभृतवधूकण्ठमुद्रां दलन्तो ददतो दीर्घ मधुरिमगुणं जल्पिते पट्पदानाम् । संचारयन्तो विरहिषु नवं पञ्चमं किंचिद्रागं रागोन्मत्ता रतिकुलगृहा वासरा विस्तीर्यन्ते ॥ परभृतवध्वः कोकिलस्त्रियः । परभृता वध्व इवेति वा । पक्षद्वयेऽपि संभोगशृङ्गारो व्यङ्ग्यः । मधुरिमैव गुणः । मधुरिम्णा गुणविशेष इति वा । तेन दुःसहत्वे च तेषां तस्य भावादिति भावः(?) । 'पुष्पसाधारणे काले पिकः कजति पञ्चमम् ।' किंचिद्रागमिति पञ्चममित्यस्य विशेषणम् । किंचिद्रागो यस्यां क्रियायामिति यथा भवति तथेति क्रिया. विशेषणं वा । रतयः संभोगास्तेषां कुलं समहस्तस्य गृहाः स्थानानीत्यर्थः । यद्वा रति. कुलस्य प्रीतिसमुदायस्य गृहाः स्थानानि । तज्जनकत्वादित्याशयः । राजाआस्थानीजनलोचनानां बहला लावण्यकल्लोलिनी लीलाविभ्रमहासवासनगरी सौभाग्यपारस्थिता । For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy