SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २ जवनिकान्तरम् कर्पूरमञ्जरी। ३९ द्वितीयं जवनिकान्तरम् । (ततः प्रविशति राजा प्रतीहारी च ।) प्रतीहारी-(परिक्रामितकेन ।) इदो इदो महाराओ । राजा—(कतिचित्पदानि गत्वा, तामनुसंधाय।) तहिं खु अवसरे ण हाणाहिं तिलंतरं वि चलिदा सुत्था णिअम्बत्थली थोउब्बेल्लबलीतरंगमुअरं कंठो तिरच्छि हिदो । वेणीए उण आणणेदुवलणे लद्धं थणालिंगणं जादा तीअ चउव्विहा तणुलदा णिज्झाअअंतीअ मं ॥ १ ॥ प्रतीहारी-(स्वगतम् ।) कधं अज्ज वि सो ज्जेब्ब तालीपत्तसंचओ, ताओ व्विअ अक्खरपंतीओ । ता वसंतवण्णणेण सिढिलआमि से तग्गदं प्रतीहारीइत इतो महाराजः। आयात्विति शेषः। राजा--- गत्वेत्यनन्तरमाह स्मेति शेपः । तस्मिन्खल्बवसरे न स्थानात्तिलान्तरमपि चलिता स्वस्था नितम्बस्थली ___ स्तोकोद्वेलदलीतरङ्गमुदरं कण्ठस्तिर्यस्थितः । घेण्या पुनराननेन्दुवलने लब्धं स्तनालिङ्गनं जातास्तस्याश्चतुर्विधा तनुलता निध्याययन्त्या माम् ॥ अत्र स्मृतिः । तलक्षणं साहित्यदर्पणे–'सदृशज्ञानचिन्ताद्यैर्भूसमुन्नयनादिकृत् । स्मृतिः पूर्वानुभूतार्थविषयज्ञानमुच्यते ॥' परिकरोऽलंकारः । तल्लक्षणमुक्तं वृद्धैः–'विशेपणसाभिप्रायत्वे परिकरः' इति । अत्र च स्थलीतरङ्गादि विशेषणानां तथात्वमह्यम् । रूपकं चात्र । तल्लक्षणमुक्तं मम्मटेन-'तद्रूपकमभेदो य उपमानोपमेययोः।' इति । न स्थानात्तिलान्तरमपीत्यनेन नितम्बस्व गरिमातिशयो धन्यते । वलीतरङ्गमित्यनेन स्व. च्छतातिशयो व्यज्यते । तनुलतेत्यनेन च कार्यचापल्यशैत्यादिलतागुणवत्त्वं वपुषो ध्वन्यते। प्रतीहारी कथमद्यापि स एव ताडीपत्रसंचयः, ता एवाक्षरपतयः । तद्वसन्तवर्णनेन शिथिलयाम्यस्य तद्गतं हृदयावेगम् । For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy