SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मुकुन्दानन्दभाणः । पिशुनयति । (प्रकाशम् ।) अरे मूर्ख, किं दुःखितमेव वैयस्यं पुनरेवमरुंतुदैर्वचनैर्दुःखयसि । किं ब्रवीषि — 'किंदि दक्खिदो दे वअस्सो ।' (क ) इति । केनापि न रक्षिता निजवल्लभा कमलापीडेन व्यापाद्यमाना कलवाणी । किं ब्रवीषि - 'अह ई । केणावि ण रक्खिदा सा - ' ( ख ) ( इत्यर्धोक्ते ।) वयस्य, सातगदं किं ब्रवीषि - 'द्वाभ्यामाभ्यां कुवलयमयी मालिका मत्कराभ्यां यस्मिन्क्रीडाविधिषु निहिता सस्टहं सानुकम्पम् 1 सोऽयं कण्ठः कॅनककदलीकन्दली गर्भसारः (स्वगतम् ।) कथं वयस्यमाश्वासयामि । कान्ते जातः कथमसिलताघोरपातस्य पात्रम् ॥ ४१ ॥ इति । १३ शोकं त्यजेति परुषं किमितः शुचेति निन्दानुशोचनविधिर्बहुशो कहेतुः । मौनं कृपाविधुरता कथमात्तशोक माश्वासयन्ति सुहृदं सुहृदो न विद्मः ॥ ४२ ॥ (प्रकाशम् ।) वयस्य, निःशेषमसंबद्धप्रलापिनोऽस्य वचनमैनाकर्ण्य न युक्तमेवं विलपितुम् । अरे, किं ब्रवीषि - 'एव्वं दम् । एसो मह वअणं समगंण सुणादि' (ग) इति । समग्रमेव तावत्कथय । किं ब्रवीषि - 'सुणिअदु दाव । एदं कहिअदि । ण केणावि रक्खिदा सा अप्पणो बुद्धिमन्दरेण ' (घ) इति । वयस्य, तव प्रियतमात्मनो बुद्ध्या रक्षितेत्युक्तं भवति । तदलममङ्गलेन शोकेन । तत्प्रकारमेव पृच्छावः । ( इति पटा लेनाणि परि कर्ण्य' क. (क) किमिति दुःखितस्ते वयस्यः । (ख) अथ किम् । केनापि न रक्षिता सा । (ग) एवमिदम् । एष मम वचनं समग्रं न शृणोति । (घ) श्रूयतां तावत् । एतत्कथ्यते । न केनापि रक्षिता सात्मनो बुद्धिम न्तरेण । १. ' मे वयस्य' ख. २. 'कमलकदली' ख. ३. 'दूरघातस्य' ख-ग. For Private and Personal Use Only ४. 'आ
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy