SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला। नात्मनः प्राणान्गणयसि । किं ब्रवीषि--'सखे, किं ममापि प्राणेष्वभिध्वङ्गः । येनैवं त्रैलोक्याद्भुतजीवरत्नमवलां स्वप्राणनाडी पतिः । किं कुर्यात्कुपितोऽपि तामिति मया दुस्तर्कवैक्रात्मना । जाल्मेनानुपकारिणा जडधिया भूयः कृतघ्नेन म त्प्राणा एव निरीक्षिता न तु पुनः प्राणप्रिया रक्षिता ॥४०॥ इति । (स्वगतम् ।) कथमप्रतिकारशोकवेगः संवृत्तो वयस्यस्य । किमत्र कतव्यम् । इत्थं तावत्कथयामि । (प्रकाशम् ।) वयस्य, तत्त्वतः कमलापीडस्य तस्यां प्रवृत्तिमनवेक्ष्य केवलेन कलकलेन किमप्यमङ्गलमुत्प्रेक्ष्य गदितुमेवमनुभवितुं वा क्लेशमनुचितम् । तदेहि । कलवाणीवृत्तान्तं तत्त्वतो ज्ञास्यावः' इति । (कतिचित्पदानि गत्वा विलोक्य च ।) वयस्य, पश्य कोऽयं कक्षान्तरनिक्षिप्तरूपाणद्वितीयोऽर्धावगुण्टितमूर्धा ईत एवं सत्वरमायाति । (निर्वर्ण्य ।) किं ब्रवीषि---'सखे, अयं मदनुचरः कलकण्ठो मैंदवलोकनोकण्ठो जवादभिपतति । यः किल निशीथे कलवाणीविलासगृहं प्रवि. शता मया मदीयरूपाणं प्रदाय बाह्यकक्षान्तरे मेम रक्षणाय निक्षिप्तः' इति । भवतु । एनमेव पृच्छावः । 'अरे कलकण्ठ, इत इतः । खड्गमुत्तंसयन्प्रणम्य किं ब्रवीषि-सम्मक्खु अणुहिदं देवस्स वअस्सेण मम सामिणा णिघातदिण्णजीविदंवि जणं परिहरिअ अत्ताणं रक्खअन्तेण ।। (क)इति । (स्वगतम् ।) कथमयं वयस्यमुपालभमानः कलवाणीगतं किंचिदंशभं (क) सम्यक्खल्वनुष्ठितं देवस्य वयस्येन मम स्वामिना निजघातदत्तजीवितमपि जनं परिहृत्यात्मानं रक्षता । १. 'अमलां' ख-ग. २. 'धौतात्मना' ख-ग. ३. 'केवलं' ख-ग. ४ 'इति' क-पुस्तके नास्ति. ५. 'द्वितयः' ख-ग. ६. 'इत एव' ख-ग-पुस्तकयो स्ति. ७. 'मदवलोकनकृतोत्कण्ठो' ख-ग. ८. 'आदाय' ख. ९. 'ममैव' ख-ग. १०. 'अरे' ख-पुस्तके नास्ति. ११. 'अम्हे' ख. १२. 'णिअपादविसण्ण' ख. 'निजपादविषण्ण' इति तच्छाया. १३. 'अशुभं शुभं वा न' ख-ग. For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy