________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मुकुन्दानन्दभाणः ।
वीषि-'वयस्य, नायं स्वप्नः' इति । कथं तर्हि तव पुनरागमनम् । किं तावत् 'अणुमात्रमपि नात्र मया मिथ्या वचः कथ्यते । सत्यं दूरप्रवासीति । अहमपि तथैव दूतीवचनलम्भितविस्तम्भतया तया सममसमशरसंभ्रमसंभृतहृदयो यथापूर्व तैस्तैर्विलासैविलासगृहविद्रुमचरणपर्यकपर्यन्त एव शयानो निःशङ्को निशामनैषम् । अयं तु कमलापीडहतकः प्रच्छन्न एव कदा वागत्य निजकलत्रवृत्तपरिशोधनाय कुत्र वा निलीय स्थित इति नावेदिषम् । ततो निशावसाने निःशङ्कमेव तस्मान्निशान्तान्निर्गतः प्राङ्गणगतं तं घातुकमपश्यम्' इति । वयस्य, कष्टं कष्टम् । कथं पुनर्निष्क्रान्तोऽसि । किं ब्रवीषि'स मां दृष्ट्वा हन्तुं करघृतकृपाणः प्रचलितो
बहिरं यावत्वरितमरुणज्जाल्महतकः । अहं दैवात्तावत्कथमपि चलन्निष्कुटपथा
दुग्रप्राकारं लघु समतिलङ्घयागत' इति ॥ ३८ ॥ दिष्टया पुनरपि जातं वयस्येन । किं ब्रवीषि-'विशेषतः प्राणसंरक्षकं प्रियसखमुपलभ्य' इति । भवतु तावत् । तिष्ठ। कोऽयं कमलापीडसदनाङ्गणे कलकलः । (श्रुतिमभिनीय सगद्गदम् ।) किं ब्रवीषि—'सखे, नूनं कमला. पीडेन खड्गपाणिना सा मत्प्राणवल्लभा कलवाणी व्यापादिता । तत्कृतोऽयममन्दः परिजनाक्रन्दः । हा प्रिये कलवाणि, हा मदर्थत्यक्तजीविते, हा मत्प्राणवल्लभे, कथं पत्यपदेशेन पापीयसा मृत्युना दुर्दशां नीतासि । अथवा किमिति पतिरिहोपालभ्यते । किंत्वहमेव तावदपालब्धव्यः ।
कण्ठाश्लेषं शशिमुखि मया तन्वता दोरहिभ्यां __ प्राणान्पातुं प्रणयगरलं नूनमापूरि गात्रे । नो चेत्पूर्व यदमृतमयं नेत्रयोर्गात्रमासी
___ तत्ते भर्तुः कथमिव भवेत्तादृशामर्षपात्रम् ॥ ३९॥' इति । वयस्य, कलकलमात्रेण कैथमेवमधीर इवासाशोकपावके पतितोऽसि ।
१. 'तिष्ठ तिष्ठ' ख. २. 'दोर्युगाभ्यां' ख, 'दोरेगाभ्यां' ग. ३. 'कथमापीतमदिर इव' ख, 'कमापीतहृदय इव' ग,
For Private and Personal Use Only