SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला। उद्यत्कुण्डलताण्डवं च रुचिरं विक्रम्य कान्तोपरि क्लान्ता वक्षसि कामिनां मुकुलितप्रान्ताक्षिकं शेरते ॥ ३४ ।। अन्यच्च । वीरौयितेषु मृगशावविलोचनानां कण्ठोदितान्यचरमं कलकूजितानि । आम्रेडयद्भिरथ सौधगतैः कपोतैः __ शङ्के गृहीत ईव संप्रति शिष्यभावः ॥ ३५ ॥ (पदान्तरं गत्वा ।) कोऽयं कमलापीडसदनप्राकारादवतीय पर्यायस्खलितचरणस्तरुण इत एवाभिवर्तते । (निपुणं निरूप्य स्वगतम् ।) कोऽन्यो वसन्तकाहतेऽस्मन्मित्रादेतादृशे चरित्रे प्रगल्भः । (प्रकाशम् ।) सखे वसन्तक, चिराय शीतलयसि मे लोचने । सत्रासगद्गदं किं ब्रवीपि-'वयस्य, मन्दं मन्दं जल्प' इति । सखे, कुतस्ते भयमिदम् । किं ब्रवीपि-'कमलापीडात्' इति । सखे, मा भैषीः । (हस्ते गृहीत्वा ।) तिष्ठतु कमलापीडानां शतं सहस्त्रमयुतं वा । जिष्णुर्वा विष्णुर्वा स्रष्टालिकदृष्टिरष्टमूर्तिर्वा । स्प्रष्टुं वा प्रष्टुं वा मत्सखमीप्टेऽपि नान्ततो द्रष्टुम् ॥ ३६ ॥ (कतिचित्पदान्यतिक्रम्य ।) कथमद्यापि विकम्पसे । किं ब्रवीषि 'उद्यत्करालकरवालतडित्कराग्र मुद्रान्तभीमतरशोणितशोणदृष्टिम् । उद्दण्डदण्डधरदुर्धरचण्डिमान ___ मुट्ठीक्ष्य तं कथय हन्त न कम्पते कः ॥ ३७॥ इति । सत्यम् । तथाविध एव कमलापीडः । किंतु दूरप्रवासिनस्तस्यासंभावितमालोकनम् । अथवा स्वप्नविजृम्भितमेतत्प्रियसखस्य भवितव्यम् । किं ब्र. १. 'विश्रभ्य कान्ता परिक्लान्ता' ख-ग. २. 'प्रान्तेक्षणं शेरते' ख, 'प्रान्ताक्षि संशेरते' ग. ३. 'धीरायितेन' ख. ४. 'इति' क-ग. ५. 'पाय' ख-ग-पुस्तकयोनास्ति. ६. 'चकोरतरुण इवायाति' ख-ग. ७. 'नयने' ख-ग. ८. 'वयस्य' क-पस्तके नास्ति. ९. 'हस्तं' ख-ग. १०. 'वत्सलिष्ठेऽपि' ख. ११. 'शोणितकोण' क. For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy