________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मुकुन्दानन्दभाणः । (प्रताचीमवलोक्य ।) अयमिह
जरठ इव मरालो जर्जरामयूखैः
___ स्खलति शिशिरभानुः पश्चिमाम्भोधिपारे । (उर्ध्वमवलोक्य ।) अत्र पुनः
श्लथगरुत इवामूस्तत्र तत्रान्तरिक्षे
विरलविरलभासः किं च तारा लुठन्ति ॥ २९ ॥ कलङ्कदाशो गगनाम्बुराशौ प्रसार्य चन्द्रातपतन्तुजालम् । लग्नाडुमीनांल्लघु संजिवृक्षुश्चन्द्रप्लवस्थश्चरमाब्धिमेति ॥ ३० ॥ नभोवनं नक्तमसौ विगाह्य नक्षत्रसेनासहितः शशाङ्कः । कराग्रलग्नान्कतिचित्प्रहृत्य पान्थान्प्रभाते प्रपलायतेऽद्य ॥३१॥ अपि च ।
आलोकैरतिपाटलैरचरमां विस्तारयनिगदिश ___ नक्षत्रातिमाक्षिपद्भिरचिरादाशङ्कय सूर्योदयम् । पुञ्जीभूय भयादिवान्धतमसं मन्ये हिरेफच्छला
न्मीलन्नीलसरोरुहोदरकुटीकोणान्तरे लीयते ॥ ३२ ॥ तदितो निष्कुटवनाद्वहिरद्यैव गन्तव्यम् । (इत्युत्थाय वनप्राकारमुलक्य बीथों प्रविश्य हालीमवलोक्य च ।) व्यामिश्रैकैकबाहु प्रवलितप्टथुलैकैकचारूरुकाण्डं
देष्टादष्टाधरोष्टं दरशिथिलतनुश्लेषमालिङ्गच कान्ताः । शश्वन्निःश्वासवेगस्फुरितगुरुकुचद्वन्द्वसंवृष्टवक्षाः ।
श्रान्तः शेते रतान्ते सुखमिह सुकृती लीलया कामिलोकः।॥३३॥ किं च काश्चन पुनरिहैव निःशेषं व्यपनीय नीविवसनं मञ्जक्वणन्मेखलं
क्रीडान्दोलनखिन्नमध्यलतिकं किंचित्प्रकम्प्रस्तनम् ।
१. 'भवन' क. २. 'च' ख-ग-पुस्तकयो स्ति. ३. 'प्रचलित' ख. ४. 'दा दष्ट्वा' क.
For Private and Personal Use Only