SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला। नायिका-(सर्वानवलोक्य । स्वगतम् ।) एसो महाराओ को वि इमिणा गंभीरमहुरेण सोहासमुदाएण जाणिज्जदि । एसा एदस्स महादेवी तक्कीअदि । अद्धणारीसरस्स विअ अकहिआ वि गोरी । एसो को वि जोईसरो। एस उण परिअणो । (विचिन्त्य ।) ता किं ति एदस्स महिलासहिदस्स दिही मं बहु मण्णेदि । (इति त्रस्तं वीक्षते ।) राजा--(विदूषकमपवार्य ।) एदाए जं मुका सवणंतरेण तरला तिक्खा कडक्खच्छडा शिंगाधिहि अकेअअग्गिमदलदोणीसरिच्छच्छई । दृष्टिरत्र तटस्थः । अन्यत्पूर्ववत् । अत्र रूपमुक्तम् । तद्यथा सुधाकरे-'अङ्गान्यभू. घितान्येव प्रक्षेपाविभूषणैः । येन भूषितवद्भान्ति तद्रूपमिह कथ्यते ॥' इति । मृदवं नामाङ्गमप्युक्तम्----दोषा गुणा गुणा दोषा यत्र स्युर्मेदवं हि तत् ।' इति तल्लक्षणम् । 'सुश्लिष्टसृष्टिबन्धो यस्तत्सौन्दर्यमितीर्यते' इति सौन्दर्यलक्षणम् । नायिका-एसो इति। एष महाराजः कोऽप्यनेन गम्भीरमधुरेण शोभासमुदायेन ज्ञायते । एषाप्यस्य महादेवी तय॑ते । अर्धनारीश्वरस्येवाकथितापि गौरी । एप कोऽपि योगीश्वरः । एष पुनः परिजनः । तत्क्रिमित्येतस्य महिलासहितस्यापि दृष्टिर्मा बहु मन्यते । त्रस्तमिति क्रियाविशेषणम् । अनेन कातराख्यं दर्शनमुक्तम् । 'सभयान्वेषणपरं यत्तस्कातरमुच्यते ।' इति तल्लक्षणम् । राजा-अपवार्येति । अपवारणेन जनान्तिकमुच्यते । अत एवोक्तं दशरूपके'त्रिपताककरेणान्यानपवार्यान्तरा कथाम् । अन्योन्यामन्त्रणं यत्स्याज्जनान्ते तज्जनान्तिकम् ॥' इति । त्रिपताका तु संगीतरत्नाकरे–'तर्जनीमूलसंलग्नकुश्चिताङ्गष्ठको भवेत् । पताकः संहताकारः प्रसारितकराङ्गलिः ॥ स एव त्रिपताकः स्याद्वक्रितानामिकाङ्गलिः ।' इति । एदाए इति । एतस्याः यन्मुक्ता श्रवणान्तरेण तरला तीक्ष्णा कटाक्षच्छटा शृङ्गाधिष्ठितकेतकाग्रिमदलद्रोणीसदृक्षच्छविः । For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy