________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६
काव्यमाला।
अवि अ।
रंडा चंडा दिक्खिदा धम्मदारा ___ मजं मंसं पिजए खजए अ । भिक्खा भोजं चम्मखंडं च सेजा
कोलो धम्मो कस्स णो भादि रम्मो ॥ २३ ॥ किं च ।
मुत्तिं भणंति हरिबह्ममुहाहिदेआ ___ झाणेण वेअपठणेण कदुक्किआए। एक्केण केवलमुमादइएण दिहो
___ मोक्खो समं सुरअकेलिसुरारसेहिं ॥ २४ ॥ राजा-एदं आसणं । उपविसदु भैरवाणंदो। मन्त्रादिलक्षणान्यनतिप्रयोजनतया न लिख्यन्ते । अत्र विरोधाभासः । स यथा दण्डिना प्रोक्त:--'विरुद्धानां पदार्थानां यत्र संसर्गदर्शनम् । विशेषदर्शनायव स विरोधः स्मृतो यथा ।।' इति ।
अवि एति । अपि च।
रण्डा चण्डा दीक्षिता धर्मदारा
__ मद्यं मांसं पीयते खाद्यते च । भिक्षा भोज्यं चर्मखण्डं च शय्या
कौलो धर्मः कस्य नो भाति रम्यः ॥ किं चेति ।
मुक्तिं भणन्ति हरिब्रह्ममुखादिदेवा
ध्यानेन वेदपठनेन क्रतुक्रियाभिः । एकेन केवलमुमादयितेन दृष्टो
मोक्षः समं सुरतकेलिसुरारसैः ॥ हरिब्रह्ममुखाश्च ते आदिदेवाश्चेति विग्रहः । अत्र व्यतिरेकः । राजाइदमासनम् । उपविशतु भैरवानन्दः ।
For Private and Personal Use Only