SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २४ काव्यमाला । उवहसणत्थं करीअदु | अहमेक्को मुदो तुह्माणं सब्बाणं मज्झे, तुझे उण वरससअं जीअध | विचक्षणा - मा अणुबंधेहि । अणुण अकक्कसो क्खु कबिंजलबह्मणो सलिलसित्तो वि सणगुणगंठी चिरं गाढअरो भोदि । णं दंसणीअं दीसदु । राजा - (समन्तादवलोक्य ।) गाअंतगोवअबहूपदखिआसु दोलासु विभवदीसु णिसण्णदिट्ठी । जं जादि खंजिदतरंगरहो दिणेसो तेणेव होंति दिअहा अइदीहदीहाः ॥ २१ ॥ णेति । न खलु न खल्वागमिष्यामि । अन्यः कोऽपि प्रियवयस्योऽन्विष्यताम् । अथवैषा दुष्टदासी लम्बकुचा टप्परकर्णा प्रतिशीर्षकं दत्त्वा मम स्थान उपहसनार्थं क्रियताम् । अहमेको मृतो युष्माकं सर्वेषां मध्ये, यूयं पुनर्वर्षशतं जीवत | टप्परी वंशपात्रम् | 'टोपला' इति भाषायाम् । तद्वत्कर्णो यस्याः । प्रतिशीर्षकलक्षणमुक्तम् । मम स्थान इति मदीयो वेषोऽन्यस्मै दातव्य इत्यर्थः । विचक्षणा मानुबध्नीत । अनुनयकर्कशः खलु कपिञ्जलब्राह्मणः सलिलसिक्त इव शणगुणग्रन्थिश्चिरं गाढतरो भवति । ननु दर्शनीयं दृश्यताम् । राजा गायगोपवधूपदप्रेङ्गितासु दोलासु विभ्रमanty निषण्णदृष्टिः । यद्याति खञ्जिततुरङ्गरथो दिनेश स्तेनैव भवन्ति दिवसा अतिदीर्घदीर्घाः ॥ पदैश्चरणैः । प्रेङ्खितास्वान्दोलितासु । गोष्ठीभिर्विनातिदीर्घा दिवसा आलस्यमावहन्तीत्यानीयतां कपिञ्जलब्राह्मण इति ध्वन्यते, तेन प्रकृतसंगतिः । अत्र हेत्वतिशयोक्तिपर्यायोक्त्युत्प्रेक्षाः । अतिशयोक्तिपर्यायोक्ती दण्डिनोक्ते - 'विवक्षायां विशेषस्य लोकसीमातिवर्तिनी । असावतिशयोक्तिः स्यादलंकारोत्तमा यथा ॥' इति । 'अर्थमिष्टमनाख्याय साक्षातस्यैव सिद्धये । यत्प्रकारान्तराख्यानं पर्यायोक्तस्तदिष्यते ॥' इति । For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy