SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १ जवनिकान्तरम्] कर्पूरमञ्जरी । विचक्षणा-जं देवी आणवेदि । (पठति ।) जे लंकागिरिमेहलाहिं खलिदा संभोअखिण्णोरई फारप्फुल्लफणावलीकवलणे पत्ता दरिदत्तणं । ते एहिं मलआणिला विरहिणीणीसाससंपक्किणो ___जादा झत्ति सिमुत्तणे वि वहला तारुण्णपुण्णा विअ ॥ २० ॥ राजा-सच्चं विअक्खणा विअक्खणा चदुरत्तणेण उत्तिणं । ता किमणं कइणं वि कई । देवी-(विहस्य ।) कइचूडामणित्तणेण हिदा एसा । विदूषकः-(सक्रोधम् ।) ता उज्जुअं जेब्ब किं ण भणीअदि देवीए, अच्चुत्तमा विअक्खणा कब्वम्मि, अच्चहमो कविंजलबह्मणो त्ति । विचक्षणायद्देव्याज्ञापयति । जे इति। ये लङ्कागिरिमेखलायां स्खलिताः संभोगखिन्नोरगी स्फारोत्फुल्लफणावलीकवलने प्राप्ता दरिद्रत्वम् । त इदानीं मलयानिला विरहिणीनिःश्वाससंपर्किणो जाता झटिति शिशुत्वेऽपि बहलास्तारुण्यपूर्णा इव ।। अयं श्लोकः कविनिवद्धवक्तृप्रौढोक्तिनिर्मिते ध्वनौ निःश्वाससंपकिवेन वस्तुना प्राप्तैश्वर्याः किं किं न कुर्वत इति वस्तु व्यज्यत इत्युदाहरणविषयत्वेनोदाहृतः काव्यप्र. काशे [चतुर्योल्लासे] । सत्या अप्युत्प्रेक्षाया व्यसनेऽकिंचित्करत्वान्नालंकारव्यञ्जनोदाहरणम् । अत्र हेतृत्प्रेक्षासमाधिविभावनाः । विभावना दण्डिनोक्ता-'प्रसिद्धहेतुव्यावृत्त्या यत्किचित्कारणान्तरम् । यत्र स्वाभाविकत्वं वा विभाव्यं सा विभावना ।।' इति । राजासत्यं विचक्षणा विचक्षणा चतुरत्वेनोक्तीनाम् । तत्किमन्यत्कवीनामपि कविः। देवीकविचूडामणित्वेन स्थितैषा । विदषकः तदृज्वेव किं न भण्यते देव्या, अत्युत्तमा विचक्षणा काव्ये, अत्यधमः कपिलब्राह्मण इति । For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy