________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०
काव्यमाला।
विचक्षणा-अज्ज, मा कुप्प । कब्बं जेब कइत्तणं पिमुणोद । जदो णिअकंतारंजणजोग्गं णिजोदरभरित्तणं । णिंदणिजे बि अत्थे सुउमारा दे वाणी, लंबत्थणीए विअ एक्कावल्ली, तुंदिलाए विअ कंचुलिआ, ठेराए विअ कडक्खविक्खेवो, कट्टिदकेसाए विअ मालदीकुसुममाला, काणाए विअ कज्जलसलाआ, ण सुटुंदरं भादि रमणिज्जा ।
विपकः-तुज्झ उण रमणिजेऽवि अत्थे ण सुंदरा सद्दावल्ली । कणअकडिसुत्तए विअ लोहकिंकिणीमाला, पडिवट्टे विअ टसरविरअणा, गोरंगीए विअ चंदणचञ्चा, ण चारुत्तणमवलंबेदि । तहा वि तुमं वणीअसि।
विचक्षणा-अज्ज, मा कुप्प । का तुह्मेहिं सह पडिसद्धा । जदो तुमं णाराओ विअ णिरक्खरो वि रअणतुलाए णिउंजीअसि । अहं उण तुले ब्ब लद्धक्खरा वि ण सुवण्णलवे विणिउंजीआमि । विचक्षणा
आर्य, मा कुप्य । काव्यमेव कवित्वं पिशुनयति । यतो निजकान्तारञ्जनयोग्यं निजोदरंभरित्वम् । निन्दनीयेऽप्यर्थे सुकुमारा ते वाणी, लम्बस्तन्या इवैकावली, तुन्दिलाया इव कञ्चलिका, स्थविराया इव कटाक्षविक्षेपः, कर्तितकेशाया इव मालतीकुसुममाला, काणाया इव कजलशलाका, न सुष्ठुतरं भाति रमणीया ।
ते वाणी न भातीत्यर्थः । विदूषकः
तव पुना रमणीयेऽप्यर्थे न सुन्दरा शब्दावली । कनककटिसूत्र इव लोहकिंकिणीमाला, प्रतिपट्ट इव त्रसरविरचना, गौराङ्गया इव चन्दनचर्चा, न चारुत्वमवलम्बते । तथापि त्वं वर्ण्यसे ।
प्रतिपक्ष: पट्टसूत्रम् । चन्दनचर्चायाः स्वतः सुन्दरत्वेऽपि गौरेऽङ्गे परभागालाभादसौन्दर्यम् । अर्थासुन्दरत्वेऽपि काव्यकौशलादहं सुकविः, त्वं त्वर्थसौन्दर्येऽप्यसुन्दरकवित्वे वर्ण्यसे च सर्वैरिति महदाश्चर्यमिति भावः । विचक्षणा--
आर्य, मा कुप्य । का युष्माभिः सह प्रतिस्पर्धा । यतस्त्वं नाराच इव निरक्षरोऽपि रत्नतुलायां नियुज्यसे । अहं पुनस्तुलेव लब्धाक्षरापि न सुवर्णभाण्डे (लवे) विनियुज्ये ।
For Private and Personal Use Only