________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१ जवनिकान्तरम] कर्पूरमञ्जरी।
देवी-जधा किल णिवेदिदं बंदीहिं । पअट्टा जेब्ब मलआणिला । तथाहि । लंकातोरणमालिआतरलिणो कुंभुन्भवस्सासमे
मंदंदोलिदचंदणदुमलदाकप्पूरसंपक्किणो । कंकोलीकुलकंपिणो फणिलदाणिप्पट्टणटावा
चण्डं चुंबिअतंबवण्णिसलिला वाअन्ति चित्ताणिला ॥ १७ ॥ वर्धापनं वर्णनम् । विभ्रमेत्यादि मधूत्सवविशेषणानि । तरट्टीति दंष्ट्रादित्वात् । णट्टावअमिति वयोऽनुसारेण । तारुण्यं हि विभ्रमनिदानम् । अथवा यथायं कामिनीनां विभ्रमजनकस्तथा वसन्तोत्सवोऽपि । कामुकान्हि विलोक्य कामिन्यो विभ्रमसमुद्रमन्ना भवन्ति । अर्थत उपमानम् । तेन विभक्तित्वं न दोषः । एतेन स्वस्य कामुकता व्यङ्गया । 'क्रोधः स्मितं च कुसुमाभरणादियाच्या तद्वर्जनं च सहसैव विमण्डनं च । आक्षिप्य कान्तवचनं लपनं सखीभिनिष्कारणस्थितगतेन स विभ्रमः स्यात् ॥' इति विभ्रमलक्षणम् । 'तल्लास्यं ताण्डव चैव छलितं शम्बया सह । हल्लीसकं च रासं च षट्प्रकारं प्रचक्षते ॥' इति षड्भेदमपि नृत्यं गृह्यते । पश्चमः स्वरः । कलकण्ठी कोकिला । चार्वित्यादौ विशेषणद्वयं बहुधीहिः । विस्तार्येत्यादिना विस्तारिताख्यो दृग्विकार उक्तः । तदुक्तम्-'आयतं विस्फुरत्तारं विस्फारितमुदाहृतम् ।' इति । एतेनादरातिशयो व्यङ्गयः । अत्र हेतुरूपके । नर्तकमित्यादौ समाधिः । 'अन्यधर्मस्ततोऽन्यत्र लोकसीमानुरोधिना । सम्यगाधीयते यत्र स समाधिः स्मृतो यथा ॥' इति दण्डी ।
देवीयथा किल निवेदितं बन्दिभ्याम् । सत्यमेवोक्तमित्यर्थः । प्रवृत्ता एव मलयानिलाः । तथाहि । लङ्कातोरणमालिकातरलिनः कुम्भोद्भवस्याश्रमे
मन्दान्दोलितचन्दनद्रुमलताकरसंपणिः । कङ्कोलीकुलकम्पिनः फणिलतानिष्पष्टनर्तका___ श्चण्डं चुम्बितताम्रपर्णीसलिला बान्ति चैत्रानिलाः ॥ कोली वृक्षविशेषः । फणिलताः फणिरूपालताः। लताविशेषा (ताम्बूलवल्लयः) वा । निष्पष्टं निःशेषं नितरां वा । महाराष्ट्रभाषायाम् 'निप्पट' इति प्रसिद्धम् । एतेन मान्द्यादिकमुक्तं वायोः । अत्र प्रसादमाधुर्यसौकुमार्यार्थव्यक्तय उह्याः । ते यथा कण्ठाभरणे'प्रसिद्धार्थपदत्वं यत्स प्रसादोऽभिधीयते। या पृथक्पदता वाक्ये तन्माधुर्यमिति स्मृतम् ।।
For Private and Personal Use Only