________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला ।
(अत्रैव।) . द्वितीयः
जादं कुंकुमपंकलीढमरठीगंडप्पहं चंपअं ___ थोआवटिअदुद्धमुद्धकलिआ पप्फुल्लिआ मल्लिआ। मूले सामलमग्गलग्गभसलं लक्खिज्जए किंसुअं।
पिजन्तं भसलेहि दोहिँ वि दिसाभाएसु लग्गेहि व ॥ १६ ॥ राजा-पिए विब्भमलेहए, एको अहं वडावओ तुज्झ, एका तुम वाविआ मज्झ । किं उण दुवे वि अह्मे वड़ाविआ कंचणचंडरअणचंडेहिं बंदीहिं । ता विन्भममरदृपअट्टावि तरट्टीणं, णटावअं मलअमारुदंदोलिदलदाणच्चणीणं, चारुपवंचितपंचमं कलअंठिकंठकंदलेसु, कंदलिअकंदप्पकोअंडदंडखडिदचंडिम, सिणिबंधुं वसुंधरापुरंधीए । विसारिअ पसइप्पमाणे अच्छिणी महुच्छवं जहिच्छं पेच्छदु देवी ।
जादमिति। जातं कुङ्कुमपङ्कली ढमहाराष्ट्रीगण्डप्रभं चम्पर्क
स्तोकावर्तितदुग्धमुग्धकलिका प्रोत्फुल्ला मल्लिका । मूले श्यामलमग्रलग्नभ्रमरं लक्ष्यते किंशुकं
पीयमानं मधुपाभ्यां द्वाभ्यामपि दिशाभागेषु लग्नाभ्यामिव ॥ मरठीति दंष्ट्रादिः । थो इति 'स्तस्य थः' इति थः । स्तोकपदमत्यन्तसादृश्यार्थम् । मुग्धा सुन्दरी । 'मुग्धः सुन्दरमूढयोः' इत्यभिधानात् । महाराष्ट्रीपदं गौरत्वातिशयकथनार्थम् । स्वभावतस्तद्गुण्डानां गौरत्वात् । भसलो भ्रमरः। अत्र रूपकस्वभावोक्त्युत्प्रेक्षाः । स्वभावोक्तिर्दण्डिनोक्ता-'नानावस्थं पदार्थानां रूपं साक्षाद्विवृण्वती । स्वभावोक्तिश्च जातिश्चेत्याद्या सालंकृतियथा ।।' इति ।
राजाप्रिये विभ्रमलेखे, एकोऽहं वर्धापकस्तव, एका त्वं वर्धापिका मम । किं पुनवप्यावां वर्धापितौ काञ्चनचण्डरनचण्डाभ्यां बन्दिभ्याम्। तद्विभ्रमगर्वप्रवर्तकं तरुणीनाम्, नर्तकं मलयमारुतान्दोलितलतानर्तकीनाम्, चारुप्रपञ्चितपञ्चमं कलकण्ठीकण्ठकन्दलेषु, कन्दलितकंदर्पकोदण्डदण्डखण्डितचण्डिमानम्, स्निग्धबान्धवं वसुंधरापुरंध्याः । विस्तार्य प्रसूतिप्रमाणे अक्षिणी मधूत्सवं यथेच्छं प्रेक्षतां देवी ।
For Private and Personal Use Only