SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १ जवनिकान्तरम् ] Acharya Shri Kailassagarsuri Gyanmandir कर्पूरमञ्जरी । ( नेपथ्ये ।) वैतालिकः -- जअ पुब्बदिअंगणाभुअंग चंपाचंपककण्णऊर लीलाणिज्जिअराढादेस विकमकंतकामरूअ हरिकेलीकेलिआरअ अवमाणिअजच्च सुवण्णवण्ण सब्बंग सुंदरत्तणरमणिज्ज, सुहाअ दे होदु सुरहिसमारंभो । इह हि १३ पंडीणं गंडवालीपुल अणचवला कंचिवालावलीणं माणं दो हंडता रइरहसकला लोलचोलप्पिआणं । कण्णाडीणं कुणंता चिरतरणं कुंतलीणं पिएस गुंफता हटि मल असिहरिणो सीअलावान्ति वा ॥ १९ ॥ जयेति । जय पूर्वदिगङ्गनाभुजंग चम्पाचम्पककर्णपूर लीलानिर्जितराढादेश विक्र माक्रान्तकामरूप हरिकेलीकेलिकारक अपमानितजात्यसुवर्णवर्ण सर्वाङ्गसुन्दरत्वरमणीय, सुखाय ते भवतु सुरभिसमारम्भः । भुजंगः कामुकः । 'राहागात्व' 'चङ्गत्व' इति वा पाठ: । 'अवमानितकर्णसुवर्णदान' इति वा पाठ: । राज्ञः सर्वाः संबुद्धयः । चम्पारावाकामरूपहरिकेल्याख्या देशाः । कामस्य रूपमिति न व्याख्या । प्रक्रमभङ्गापत्तेः । चङ्गत्वं नानाकला कौशलवम् । आयोः संबुद्ध्यो रूपकम् । हरिकेली कामिनीवेत्यर्थश्लेषः । सुरभिर्वसन्तः । इह हि पाण्डीनां गण्डपालीपुलकनचपलाः काञ्चीबालावलीनां मानं द्विः खण्डयन्तो रतिरभसकरा लोलचोलाङ्गनानाम् । कार्णाटीनां कुर्वन्तो कुन्तलतरलनं कुन्तलीनां प्रियेषु गुम्फन्तः स्नेहग्रन्थि मलयशिखरिणः शीतला वान्ति वाताः ॥ पाण्ड्यादयस्तत्तद्देशोद्भवाः स्त्रियः । पुलकनं पुलककरणम् । तरलनं तरलत्वकरणम् । एतेन कामोद्दीपकत्वमुक्तं दाक्षिणात्यवायूनाम् । एतेन तत्तद्देशाधिपत्यं राज्ञो व्यङ्गयम् । अन्यथा विपक्षदेशवर्णनं रोपावहत्वादनौचितीमेव व्रजेत् । णेहेति 'स्नेहेति वा' इत्यनेन विप्रकर्षाभावपक्षे 'उपरि लोप:' इत्यनेन सलोपः । लक्ष्यवशाल्लक्षण प्रवृत्तेरङ्गीकारात् परमपि 'अधोमनयाम्' इति प्राप्तं नलोपं बाधित्वा 'नक्णक्ष्णस्त्रां ह्रः' इति ह्णादेशः । 'द्वेर्दो' इति द्विशब्दस्य दोआदेश: । अत्र कारक हेत्वलंकारः । ' हेतुश्च सूक्ष्मलेशौ च वाचामुत्तमभूषणम् । कारकज्ञापको हेतू तौ चानेकविधौ यथा ॥' इति दण्डिनोक्तत्वात् । For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy