________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
देवी-देव, अहं वि तुज्झ पडिवड्राविआ भविस्सं । जधा
छोल्लंति दंतरअणाइँ गदे तुसारे
ईसीसि चंदनरसम्मि मणः कुणन्ति । एहिं सुवंति घरमज्झमसालिआसु ___ पाअंतपुञ्जिअपडं मिहुणाइँ पेच्छ ॥ १४ ॥
यद्वाला मुखकुङ्कमेऽपि घने वर्तन्ते शिथिलादरा
स्तन्मन्ये शिशिरं विनिर्जित्य बलात्प्राप्तो वसन्तोत्सवः ॥ कपासकं चोलिका । 'बाला स्यात्पोडशाब्दा' इति बालालक्षणम् । अनेन तासां विलासवत्त्वं व्यङ्ग्यम् । बाला इत्यस्यावृत्तरर्थदीपकम् । 'अनेकशब्दोपादानाक्रियैवै. कात्र दीप्यते।' इति दण्डिनोक्तम् । अत्र च देति देंति इति कथितपदलं काव्यदोषो न शङ्कनीयः । विरअंतीत्येतेन च्छेकानुप्रासनिर्वाहकवेन गुणत्वात् । तल्लक्षणं च 'सोऽनेकस्य सकृत्पूर्वः' इति काव्यप्रकाशे । अस्वार्थ:--अनेकस्य व्यञ्जनस्य सकृदेकवारं साम्यं पर्व यस्य स च्छेकानुप्रास इति । न चाव्यवधानेन पूर्वतायामेव स इति वाच्यम् । 'ततोऽरुणपरिस्पन्दमन्दीकृतवपुः शशी । दने कामपरिक्षामकामिनीगण्डपाण्डताम् ॥' इत्यादावप्यकारमकाराकाराकारपकाराकारव्यवधानेन तदनुदाहरणत्वापातात् । यद्वैकस्य देंतिपदस्य दानविशेषार्थान्तरसंक्रामितवाच्यत्वाददोष इति युक्तमुत्पश्यामः ।
देवीदेव, अहमपि तव प्रतिवधिका भविष्यामि । प्रतिवर्धयतीति प्रतिवधिका । वसन्तवर्णिकत्यर्थः । जधेति। यथा
स्फुरन्ति दन्तरत्नानि गते तुपारे
ईषदीपञ्चन्दनरसे मनः कुर्वन्ति । इदानीं स्वपन्ति गृहमध्यमशालिकासु
पादान्तपुञ्जितपटं मिथुनानि प्रेक्षस्व ॥ मध्यमशालिकास्वित्यनेनान्तर्गहस्वापस्त्यक्त इत्युक्तम् । पादान्तेत्यादिना पटानपेक्षोक्ता । स्फुरन्तीत्यनेनोष्टानां हाससहत्वमुक्तम् । यथा शृङ्गारतिलके-'किंचिद्विकसितैर्गण्डैः किंचिद्विस्फुरितेक्षणैः । किंचिलक्ष्य द्विजैः सोऽयमुत्तमानां भवेद्यथा ।।' इति । मिथुनानीति विरहासहत्वं व्यङ्ग्यम् ।
For Private and Personal Use Only