________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१ जवनिकान्तरम् कर्पूरमञ्जरी। ता भाव, एहि । अणंतरकरणिजं संपादेम । जदो महाराअदेईणं भूमिअं घेत्तूण अजो अन्नघडिणिआ अ जवणिअंतरे वढदि ।
(इति परिक्रम्य निष्क्रान्तौ ।)
प्रस्तावना ।
(ततः प्रविशति राजा देवी विदूषको विभवतश्च परिवारः । सर्वे परिक्रम्य यथोचितमुप
विशन्ति ।) राजा-देवि दक्षिणावहणरिंदणंदिणि, वडावीअसि इमिणा वसंतारंभेण । जदो बिंबोढे बहलं ण देंति मअणं णो गंधतेल्लाविला
वेणीओ विरअंति देति ण तहा अंगम्मि कुप्पास। जं बाला मुहकुंकुमम्मि वि घणे वटंति ठिल्लाअरा
तं मण्णे सिसिरं विणिजिअ बला पत्तो वसंतूसओ ॥ १३ ॥ । रसाः शृङ्गारादयो जलं च । स्रोत: प्रवाहः । साटकलक्षणं त्वभ्यधायि । अत्र रूपकश्लेषानुप्रासाः । अनेन कथानायकप्रशंसा साटकस्वरूपप्रशंसा च कृता। उक्तं हि'वाद्याकलापः प्रथमं कलाविधिरनन्तरः । वाद्याशन्या न दृश्यन्ते व्यवहाराः कथंचन ।। वाद्याकलापस्तु कवेरभीष्टार्थप्रकाशनम् ।' इति ।
ता इति।
तद्भाव, एहि । अनन्तरकरणीयं संपादयावः । यतो महाराजदेव्योभूमिकां गृहीत्वा आर्य आर्यभार्या च जवनिकान्तरे वर्तते ।।
तत इति । एषामन्यतमेनार्थ पात्रावाक्षिप्य सूत्रधृक् । प्रस्तावनान्ते निर्गच्छेत्ततो वस्तु प्रपञ्चयेत् ॥' इति दशरूपके उक्तत्वात् । गृहमन्त्रः शुचिर्वाग्मी भक्तो नर्मविचक्षणः । स्यान्नमसचिवस्तस्य कुपितस्त्रीप्रसादकः ।।' इत्युक्त्वा पीठमर्दो विटश्चैव विदूषक इति त्रिधा ।' इति तद्भेदांश्वोक्त्वा 'क्रीडाप्रायो विदूषकः । स्ववपूर्वेषभाषाभिर्हास्यकारी स्वकर्मकृत् ।' इति विदूषकलक्षणमभिहितं शृङ्गारतिलके ।
राजेति। देवि दक्षिणापथनरेन्द्रनन्दिनि, वर्धसेऽनेन वसन्तारम्भेण । जदो इति । यतः । बिम्बोष्ठे बहलं न ददति मदनं नो गन्धतैलाविला
वेणीविरचयन्ति ददति न तथाङ्गेऽपि कूर्पासकम् ।
For Private and Personal Use Only