SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला। आई उच्चिणेदि । इअरा कुसुमावलीओ गुफेदि । अण्णा पडिसीसआइं पडिसारेदि । कावि क्खु वण्णिआओ पट्टए वढेदि । एस वंसे ठाविदो हाणो। इअं वीणा पडिसारीअदि । इमे तिण्णि मिअंगा सज्जीति । एस कांसतालाणं पक्खालणुजलाणं हल्लवोलो । एवं धुआगीदमालवीअदि । ता किंबि कुटुंबं हक्कारिअ पुच्छिस्सं । (नेपथ्याभिमुखमवलोक्य संज्ञापयति ।) अवधार्य प्रयोक्ता च योक्तणामुपदेशकः । एवं गुणगणोपेतः सूत्रधारः स उच्यते ॥' इति । द्वितीयस्य स्थापकसंज्ञा दर्शिता भरते-'स्थापकः प्रविशेत्तत्र सत्रधारगुणाकृतिः ।' इति । सूत्रधार इत्यस्याग्रे क्वचिद्वयकोऽस्ति । सूत्रधारपदं पुनरप्युच्चारणीयमिति तस्यार्थः । तेन सत्रधारो वदतीति द्वितीयपदस्यार्थः । एवमग्रेऽपि ज्ञेयम् । नेपथ्याभि. मुखमिति । 'नेपथ्यं स्याज्जवनिका रङ्गभूमिप्रसाधनम् ।' इत्यजयः । किं उणेति। किं पुनर्नृत्यप्रवृत्त इव दृश्यतेऽस्माकं कुशीलवानां परिजनः । जदो इति। यत एका पात्रोचितानि सिचयान्युच्चिनोति । इतरा कुसुमावलीगुम्फति । अन्या प्रतिशीर्षकाणि प्रसारयति । प्रतिशीर्घकाणि नाट्यलोचने 'अमात्यकञ्चुकिश्रेष्टिविदूषकपुरोधसाम् । वेष्टनाबद्धपद्यानि प्रतिशीर्षाणि कारयेत् ।।' इति ।। कापि खलु वर्णिकाः पट्टे वर्तयति । चित्रफलका नि चित्रयतीत्यर्थः । एष वंशे स्थापितो ध्वानः । वंशो वेणुवाद्यम् । इयं वीणा प्रतिसार्यते । इमे त्रयो मृदङ्गाः सृज्यन्ते । त्रैविध्यं च भरते—'मायूरी अर्धमायूरी कर्मरथी चेति त्रिधा' इति । एष कांस्यतालानां प्रक्षालनोज्ज्वलानां हलहलः । 'हल्लवोल' इति देशी। .एतद्भुवागीतमालप्यते । उक्तं च भरते-'प्रावेशिकी आक्षेपिणी कामिकी उत्थापिनी प्रासादिकी इति पञ्च ध्रुवाः । इति। .. तत्किमपि कुटुम्बमाकार्य पृच्छामि । नेपथ्यति । संज्ञापनमाह्वानसंकेतकरणम् । For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy