SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १ जवनिकान्तरम्] कर्पूरमञ्जरी। (नान्द्यन्ते) सूत्रधारः---(परिक्रम्य नेपथ्याभिमुखमवलोक्य ।) किं उण णपअहो विअ दीसदि अह्माणं कुसीलवाणं परिजणो । जदो एका पत्तोच्चिआई सिअमिवेत्युत्प्रेक्षा । 'अन्यथैव स्थिता वृत्तिश्चेतनस्येतरस्य वा । अन्यथोत्प्रेक्ष्यते यत्तु तामुत्प्रेक्षा विदुर्बुधाः ॥' इत्युक्तत्वात् । परोत्कर्षाक्षा स्थाद्दौर्जन्यान्मन्युतोऽपि वा' इति रसकलिकायामुक्तत्वान्मन्दाकिनीरूपसपत्न्यामीया ज्ञेया गौर्याः । इयं च स्वाधीनभरीका । सा यथा तत्रैव--स्वाधीनपतिका सा तु यां न मुश्चति वल्लभः' इति । अन्योऽप्यवान्तरनायिकाभेदोऽस्या योजनीय: । 'दाढादयो बहुलम्' इति शक्तिशब्दस्य सिप्पीत्यादेशः । तदुक्तम् --'अधोवैदूर्यशक्तीनां वधूभ्रमितशब्दयोः । हेढवे. रिल्लअंसिप्पी' इति । हलिल्लेति 'आल्विल्लोलालवतेंता मतुपः' इति मतुप इल्लः । 'सेवदिषु वा' इति निहितेत्यत्र वा द्वित्वम् । नान्द्यन्ते सत्रधार इति कविवचनम् । एवमग्रेऽपि मध्ये मध्ये कविवचनं संस्कृतं ज्ञेयम् । नान्दीलक्षणं तु 'आशीनमस्क्रियारूपः श्लोकः काव्यार्थसचकः । नान्दीति कथ्यते' इत्यादि भरते । नाट्यप्रदीपेऽपि 'नन्दन्ति काव्यानि कवीन्द्रवर्याः कुशीलवाः पारिषदाश्च सन्तः । यस्मादलं सज्जनसिन्धहसी तस्मादलं सा कथितेह नान्दी ॥' इयं च मङ्गलार्था । 'यन्नाट्यवत्पुन: पूर्वरङ्गं विघ्नोपशान्तये । कुशीलवाः प्रकुर्वन्ति पूर्वरङ्गः स उच्यते ॥ उत्थापकाः प्रकर्वन्ति सन्ति भूयांसि यद्यपि । तथाप्यवश्यं कर्तव्या नान्दी विघ्नोपशान्तये ।।' इत्युक्तत्वात् । सा चहाष्टपदी कृता । 'नाट्यपूर्वकृता नान्दी त्वाशीर्वचनसंयुता । अष्टाङ्गपदसंयुक्ता प्रशस्ता वेदसंमिता । नान्दो पददशभिरष्टभिवाप्यलंकृता ॥' इति भरतोक्तेः । पदानि चात्र श्लोकचरणरूपाणि । 'श्लोकपादं पदं केचित्सुप्तिङन्तमथापरे । परेऽवान्तरवाक्यैकस्वरूपं पदमचिरे ॥' इति नाट्यप्रदीपेऽभि. हितत्वात् । अवान्तरवाक्यपक्षे पट्पदेयं द्रष्टव्या । सा चेयं सत्रधारप्रयोज्या । 'सत्रधारः पठेन्नान्दी मध्यमं तालमाश्रितः ।' इति भरतोक्तेः । ईदृशीं नान्दी पठित्वा सत्रधारे गते पश्चात्सत्रधारः स्थापकाख्योऽपरः प्रविशतीति शषः । उक्तं च दशरूपके-- पूर्वरङ्ग विधायादौ सत्रधारे विनिर्गते । प्रविश्य तद्वदपरः काव्यमास्थापयेनट: ॥' इति । भावप्रकाशेऽपि-'इत्थं रङ्ग विधायादौ सूत्रधारे विनिर्गते । तद्वन्नटः प्रविश्यान्यः सूत्रधारगुणाकृतिः ॥' इति । पूर्वरङ्गशब्दार्थस्तूक्तो वृद्धेः---'पूर्व रज्यत इति पूर्वरङ्गो नाट्यशाला । तात्स्थ्यात्प्रथमप्रयोग इति ।' अन्यत्राप्युक्तः–'सभापतिः सभा सभ्या गायका वाचका अपि । अतो रङ्ग इति ज्ञेयः पूर्ववत्परिकल्प्यते । तस्मादयं पूर्वरङ्ग इति विद्वद्भिरुच्यते ।।' इति । सूत्रधारव्युत्पत्तिः संगीतसर्वस्वे-'नर्तनीयकथासत्रं प्रथमं येन सूच्यते । रङ्गभूमि समाक्रम्य सूत्रधारः स उच्यते ॥' इति । लक्षणं चास्य मात्रगुप्ताचा. र्यैरुक्तम्-चतुरातोद्यनिष्णातोऽनेकभषासमावृतः । नानाभाषणतत्त्वज्ञो नीतिशास्त्रार्थत. त्ववित् ।। वेश्योपचारचतुरः पौरुषेयविचक्षणः । तत्तद्गीतानुगानेककलातालावधारणः ॥ For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy