SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला । अवि अं। ससिहण्डमंडणाणं समोहणासाण सुरअणपिआणम् । गिरिसगिरिंदसुआणं संघाडी वो सुहं देउ ॥ ३ ॥ आवि अ। ईसारोसंप्पसादप्पणादसु बहुसो सग्गगंगाजलेहि ___आ मूलं पूरिदाए तुहिणअरअलारुप्पसिप्पीअ रुद्दो । जोहामुत्ताहलिल्लं णदमउलिणिहित्तग्गहत्येहिं दोहि अग्धं सिग्धं व देतो जअइ गिरिसुआपाअपंकेरुहाणं ।। ४ ॥ अवि अ। समीति। शशिखण्डमण्डनयोः समोहनाशयोः सुरगणप्रिययोः । गिरिशगिरीन्द्रसुतयोः संघटना वः सुखं ददातु ॥ मोहने सुरते आशया सहितयोः । मोहस्य नाशेन सहितयो । जगन्मोहयतीति मोहनोऽनङ्गस्तस्याशेन व्याप्त्या सहितयोर्वा । 'अशद व्याप्ती' एतस्माद्ध । मोहनस्यासेन क्षेपेण सहितयोर्वा । शिवेन तस्य जितत्वात्। 'शपोः सः' इति सादेशे सर्वत्र सकार एव। अनेन सदा स्त्रीसंगमेऽपि कामजयित्वादन्येभ्योऽतिशयित्वाद्ध्यतिरेकालंकारो व्यङ्ग यः। 'महाहिवलया प्राप्ता चन्द्ररेखाविभषणा' इत्यादौ 'देव्याश्चन्द्रचूडत्वं प्रसिद्धम् । मण्डनपदेन विरुद्धवेषस्याप्यलंकारकारित्वसूचनाद्ध्यतिरेकालंकार एव व्यङ्ग्यः ।। अवि एति। ईर्ष्यारोषप्रसादप्रणतिषु बहुशः स्वर्गगङ्गाजलै रा मूलं पूरितया तुहिनकरकलारूप्यशुक्ल्या रुद्रः । ज्योत्स्नामुक्ताफलाढ्यं नतमौलिनिहिताभ्यामग्रहस्ताभ्यां द्वाभ्या मयं शीघ्रमिव ददजयति गिरिसुतापादप रुहयोः ।। बहुश ईर्ष्यारोषयोः सतोः प्रसादार्थ क्रियमाणासु प्रणतिषु नतमौलिनिःक्षिप्ताग्रहस्ताभ्यां द्वाभ्यां गिरिसुतापादकमलयोश्चन्द्रकलारूप्यशक्त्या शीघ्रममिव ददद्रुद्रो जयतीत्यन्वयः । चन्द्रकलाया: शुक्तित्वम् । अन्योऽपि भक्तो जलपूरतया रूप्यशुक्त्या मु. क्तायुक्तं प्रणामपर्व हस्ताभ्यामधे ददातात्यर्थश्लेषः । बहुश इति तस्या मानिनीत्वं व्य. अयम् । स्वर्गगङ्गेति भावित्वमभिप्रत्युक्तम् । शीघ्र मति मानवृद्धिभयं व्यङ्ग्यम् । देवीपा. दयोश्चन्द्रकलासंबन्धकरणं कदाचिदस्याश्चन्द्रस्योद्दोपकत्वान्मदनावेशेन मानभङ्ग इति शङ्कया । अत्र रूपकम् । 'उपुमैव तिरोभतभेदा रूपकमिष्यते' इति तल्लक्षणात् । अर्घ्य For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy