SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला । अमासः-अविलम्बितं प्रवेशय । (प्रतीहारी निष्क्रम्य वीरसिंहेन सह प्रविशति ।) वीरसिंहः-जयति देवः साम्राज्येन । अमासः-आसनम् । (प्रतीहारी आसनं दत्त्वा निष्क्रान्ता ।। राजा-वीरसिंह, निवेदय वृत्तान्तम् । वीरसिंहः-यथा तावदितो निर्गत्य गर्जनाधिपतिबलस्यास्मद्वलं प्तिन्धो रोधसि मिलितम्, तथा देवाय निवेदितमेव । अनन्तरं महति समर संमर्दे पांसूनां सूचिभेद्यैः सकलमपि कुलक्ष्माभृतां छादनेच्छा___ बद्दोत्साहैः प्रवाहैरसुषिरमभवद्वयोमसीमान्तरालम् । द्वारश्रेणीनिवेशश्रियमथ धरणीमण्डलं वीर्ययाता जातोर्वी तेऽनुवीर (:) विचितविवरास्तत्र चाहो मुहूर्तम् ॥ १७ ॥ ततश्च । किं दोर्वीर्येण मौर्वी विरचय धनुषि त्वामहं न प्रहर्ता निःशङ्कस्त्वं रथस्थः प्रहर ननु यतः प्राक्प्रहारप्रियोऽहम् । वीराणामित्युदाराः मुचिरमुदचरन्नाककान्तानिकायैः स्निह्यत्कर्णा विमानप्रणिहितवदनै वितास्तत्र वाचः ॥ १८ ॥ राजा-ततः । वीरसेन:-क्रमेण. नीरन्धं रुन्धते स्म त्रुटितमिव तडिज्ज्योतिषा व्योमरन्ध्र शस्त्राणि त्रासताम्यद्दिनकरतुरगश्रेणिदूरेक्षितानि । तीक्ष्णासिच्छिन्नमुह्यदटवरवरणारम्भसंभारभाजां येन स्वःस्वैरिणीनामवतरणविधावप्यभून्नावकाशः ॥ १९ ॥ (देवी स्मयते ।) विदूषकः-उकम्पिदोन्हि । (क) (क) उत्काम्पतोऽस्मि । For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy