SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४ अङ्कः] कर्णमुन्दरी । राजा-ततः । वीरसेनः कबन्धस्कन्धेषु स्वदतिघनस्त्यानरुधिर स्थिरारम्भं गुह्यावनिधरशिरः श्रेणिमभितः । पुरो दृष्ट्वा दृष्ट्वा सुरयुवतयः किंनरकुल क्षयाशङ्कातङ्काक्षुभितमनसः क्षिप्रमभवन् ॥ २० ॥ अपि च । गायन्तीषु सुराङ्गनासु मधुरं सौगन्ध्यवत्तन्मुख श्वासोल्लासिनि षट्पदावलिरवे वेणुध्वनिस्पर्धिनि । धीरं वैरिकबन्धताण्डवविधौ सङ्ग्रामरङ्गे लस सेनानां गजगजितेन मुरजध्वानानुकारो धृतः ॥ २१ ॥ राजा-ततश्च । वीरसेनः-तत्कृतं कर्म रुच्चिकेन यन विस्मिताः सुराः । राजा-ततश्च । . वीरसेनःत्रातारं जगतां विलोलवलयश्रेणीकृतैकारवं सोन्मादामरसुन्दरीभुजलतासंसक्तकण्ठग्रहम् । कृत्वा गर्जनकाधिराजमधुना त्वं भूरिरत्नाङ्कुरच्छायाविच्छुरिताम्बुराशिरशनादानः टथिव्या पतिः ॥२२॥ (सर्वे मोदन्ते । विदूषको नृत्यति ।) अमात्यः किं ते भूयः प्रियमुपकरोमि । राजा दृष्टं देव्या किमपि भुवनाश्चर्यतत्त्वं महत्त्वं लब्धा लक्ष्मीरिव मनसिजक्ष्माभुवः पक्ष्मलाक्षी । एकच्छत्रं समजनि महीमण्डलं तत्प्रियं मे किं स्यादस्मात्परमपि वरं यत्तु याचे भवत्तः ॥ २३ ॥ १. 'वरश्रेणि' इत्यादर्शपाठः. For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy