SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला। देवी-(सलजां नायिकामन्तिके निवेश्य स्वगतम् ।) अच्चरिअम् । पञ्चक्खं व्व एसा । अहो माहप्पं कवडनाडअस्स। (क) राजामाञ्जिष्ठी लिपिरोष्ठयोः कवचितं चन्द्रस्य कान्त्या मुखं भ्रूयुग्मं मकरध्वजस्य धनुषा सर्वाङ्गमालिङ्गितम् । लावण्यं कुचयोः सुवर्णकलशीमानेन नूनं कृतं नो जाने कियती पपौ कुवलयच्छायां कटाक्षच्छविः ॥ १३ ॥ (विहस्य ।) देवी निसर्गतरला तरलायताक्षी संवादमिच्छति मदीक्षणवञ्चनाय । प्रत्यन्तरेक्षणमपि क्षणमेतदीय ___ सादृश्यनिर्मितिविधौ विधिरप्यशक्तः ॥ १४ ॥ देवी-एसा मए तुज्झ समप्पिदा। भजमु णं चउसमुद्दपुहवीए रत्तम् । (इति हस्ते नायिकां समर्पयति ।) (ख) राजा-(गृहीत्वा ।) प्रसन्नं देव्या । देवी-अमच्च, जुत्तं कदम् । (ग) . अमात्यः-किमुच्यते । वंशे तस्मिन्नजनि भवती मौक्तिकोसिक्तकान्तिः ___ कीर्तिर्यस्य च्छुरयति सुरक्ष्माधरेन्द्रस्य वक्षः । चालुक्यानां वसुमति गृहे किं च तेषां वधूस्त्वं यनिश्चिन्तः कलयति हरिः सागरे नाम शय्याम् ॥ १५ ॥ (क) आश्चर्यम् । प्रत्यक्षं सैवैषा । अहो माहात्म्यं कपटनाटकस्य । (ख) एषा मया तुभ्यं समर्पिता । भजैतच्चतुःसमुद्रपृथिव्या रत्नम् । (ग) अमात्य, युक्तं कृतम् । १. 'नायिकां सलजामन्तिके निवेशयति । स्वगतम्' इत्यादर्शपाठः. For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy