________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
४ अङ्कः ]
कर्णसुन्दरी ।
देवी - (उत्थाय 1) जेदु जेदु अजउत्तो । (क) (सर्वे यथोचितमुपविशन्ति । )
देवी - ( अञ्जलिं बद्धा ) जं मए किं पि विरुद्धं आअरिदं तस्स दण्डं
कण्णसुन्दरीं समप्पेोमि । (ख)
राजा - महानुभावप्रकृतिरसि । यदभिरुचितं तदाचर ।
( प्रविश्य 1)
प्रतीहारी–अमचो दुआरे चिट्ठदि । (ग) राजा - तूर्ण प्रवेशय ।
(इति प्रतीहारी निष्क्रान्ता ।) (ततः प्रविशत्यमात्यः प्रतीहारी च । )
प्रतीहारी — इदो इदो अमच्चो । (घ)
Acharya Shri Kailassagarsuri Gyanmandir
राजा - आसनमासनम् ।
( इति परिक्रामतः । )
प्रतीहारी - एसो भट्टा । उपसप्पद अमच्चो । (ङ)
( अमात्यो यथोचितमुपसर्पति ।)
( प्रतीहारी आसनं दत्त्वा निष्क्रान्ता |)
देवी - सहि, आणेसु कण्णसुन्दरि जेण अमञ्चस्स पुरदो समप्पिअ निरवराहा होमि । (च)
११
चेटी - णववहुत्ति जेव्व जवणिअन्तरे धरिदा सा । ( इति निष्क्रम्य तां गृहीत्वा प्रविश्य च ।) देवि, पडिच्छसु एणम् । (छ)
(घ) इत इतोऽमात्यः ।
(ङ) एष भर्ता । उपसर्पत्वमात्यः ।
(क) जयतु जयत्वार्यपुत्रः ।
(ख) यन्मया किमपि विरुद्धमाचरितं तस्य दण्डं कर्णसुन्दरीं समर्पयामि । (ग) अमात्यो द्वारे तिष्ठति ।
(च) सखि, आनय कर्णसुन्दरीं येनामात्यस्य पुरतः समय निरपराधा भवामि ।
(छ) नववधूरित्येव जवनिकान्तरे धृता सा । देवि, प्रतीच्छैनाम् ।
For Private and Personal Use Only