________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३ अङ्कः)
कर्णसुन्दरी।
देवी-(आत्मगतम्।) हदास, तुज्झ एसो सव्वो एव्व परिफन्दो । (क)
राजा-सखि बकुलावलि, किमियं वामता भवत्सख्याः, यदेवमालोकनेनापि न कृतार्थयति ।
हारलता-णेहो एत्थ अवरज्झदि, णो उण वामदा । (ख) राजा
झटिति कुवलयानि वीडया पीडितत्वा
दधतु कृतकनिद्रां चन्द्रिकासंगमेऽपि । अपि तरलय लीलामज्जदुन्मज्जदन्तः
स्फुरितकुसुमचापं चक्षुराकेकराक्षि ॥ २८ ॥ अपि च ।
सुतनु विसृज लजां वल्गु वल्गन्तु वाचः ____ कवचयतु विपञ्चीपञ्चमः श्रोत्रयुग्मम् ।
अपि कुरु परिरम्भं चारु रम्भोरु गात्रे
___ परिणमति कठोरः कैरवेशप्रकाशः ॥ २९ ॥ (इति समन्तादवलोक्य । आत्मगतम् ।) अहो निःसीमं रामणीयकम् ।
जयति धनुरधिज्यं भ्रूविलासः स्मरस्य __स्पृशति किमपि जैत्रं तैष्ण्यमक्ष्णोः प्रचारः । अपि च चिबुकचुम्बी श्यामलाङ्गचास्तनोति
स्तनकलशनिवेशः पेशल श्रीः पृथुत्वम् ॥ ३० ॥ (इत्यालिङ्गति ।) देवी--(प्रकटीभूय ।) साअदं अजउत्तस्स । (इति क्षिपति ।) (ग)
निजवदनसवर्ण यामिनीडिम्भमेनं
वहति रजनिनाथो लालयन्निवाङ्के । (क) हताश, तवैप सर्व एव परिस्पन्दः । (ख) स्नेहोऽत्रापराध्यति, न पुनर्वामता । (ग) खागतमार्यपुत्राय । १. 'पेशलश्रीपृथुत्वम्' इत्यादर्शपाठः.
For Private and Personal Use Only