SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला। श्रुतमपि भुजशाखापञ्जरे चारुलीला मधुरमधरपीडाकूजितं नायताक्ष्याः ॥ २३ ॥ (इति सौत्सुक्यम् ।) सान्द्रश्रीखण्डपाण्डुस्तनकलशभरात्तारहारप्रकाण्ड__ ज्योत्स्नापुञ्जाभिषेकद्विगुणपरिणमत्कौमुदीमग्रवक्रा । उत्कण्ठाकृष्यमाणा प्रगुणमनसिजादिश्यमानेन काचि न्मार्गेण प्राणनाथप्रणयरभसतः सान्द्रलीलां तनोति ॥ २४ ॥ यस्यै कुप्यति नूतनस्तरुणिमा लावण्यलक्ष्मीरियं ___ यत्रापत्रपते न संवदति या प्रेमानुबन्धस्य न । श्रुत्वैतां च ततां गिरं चिरमसावेतत्किमित्याकुलो वैक्लव्यं च कुतूहलं च वदनं स्मेरं च धत्ते स्मरः ॥ २५ ॥ (ततः प्रविशति कर्णसुन्दरीवेषा देवी, बकुलावलिवेषा हारलता च ।) देवी-सहि हारलदे, असे किं पि सुणन्तिओ चिहह्म । (क) राजा-अये, कथं प्राप्तैव प्राणेश्वरी । (मुखमवलोक्य ।) अहह । जानामि विस्मृतिममन्यत पद्मयोनि लावण्यसारमाभिलिख्य मृगाङ्कबिम्बम् । तेनात्र काकपदकं हरिणच्छलेन दत्त्वा लिलेख मुखमायतलोचनं ते ॥ २६ ॥ विदूषकः-अहं पि दाव वण्णेमि । रइकलहविरोहे रोहिणीकज्जलंसु प्पसरपरिगदोव्व ज्झामलो लञ्छणेण । निजवअणसवण्णं जामिणीडिम्भमेणं वहइ रअणिणाहो लालयन्तो व्व अङ्के ॥ २७ ॥ (ख) (क) सखि हारलते, आवां किमपि शृण्वत्यौ तिष्ठावः । (ख) अहमपि तावद्वर्णयामि । रतिकलहविरोधे रोहिणीकज्जलाश्रु प्रसरपरिगत इव श्यामलो लाञ्छनेन । For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy