________________
Shri Mahavir Jain Aradhana Kendra
४०
काव्यमाला |
राजा - ( सहर्षमालिङ्गथ 1 ) कथमिव । विदूषकः - ( कर्णे 1) एव्वमेवं । (क) राजा - ( सानन्दम् 1)
www.kobatirth.org
( इति सोत्साहम् । आकाशे । )
Acharya Shri Kailassagarsuri Gyanmandir
भूयोऽपि तावदिदमेव निवेदय त्वं चन्द्रांशुभिः कवलिता इव सूक्तयस्ते । अन्तर्बहिश्र हृदयेन किमप्यमन्दनिःस्यन्दमिन्दुमणिनेव विलीयते मे ॥ ८ ॥
अपि च ।
भव भव शतयामा यामिनि स्वामिनि त्वं छुरय रजनिनाथ ज्योत्स्नया दिङ्मुखानि । अयि विरमय काम क्रेङ्कितं क्रूरवाणव्ययपरिचयचञ्चत्कर्मणः कार्मुकस्य ॥ ९ ॥
(गगनमवलोक्य ।) सखे, समासन्नप्रायस्तत्र गमनसमयः । तथा हि । व्योमभ्रान्तिपरिश्रमेण तृषितैराकृष्यमाणो हयैः
प्रस्वेदश्लथमानसारथिकरप्रभ्रष्टवल्गैरिव ।
अम्भोधेरधिकूलकच्छगहनं क्षीणच्छवि क्ष्माभृतः
स्थित्वा मूर्धनि पश्चिमस्य विशति स्वैरं ग्रहग्रामणीः ॥ १० ॥
दूरं भानुरुदचितारुणकरः पाथोनिधौपद्मिनी
स्पर्शासक्तरजोङ्गरागविगमत्रासादिवामज्जति । अन्तः कान्तिमिव प्रियस्य विरहोत्कण्ठाविनोदार्थिनी रोद्धुं मुद्रयति स्वपङ्कजवनीकोषं च पाथोजिनी ॥ ११ ॥ विदूषकः - भो पिअव अस्स, अअं अ तीए अवस्थाणिवेदओ वि
रहलेहो वाचीअदु । (ख)
(क) एवमेवम् ।
(ख) भोः प्रियवयस्य, अयं च तस्या अवस्थानिवेदको बिरहलेखो वाच्यताम् ।
For Private and Personal Use Only