________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३ अङ्कः
कर्णसुन्दरी।
(राजा वाचयति ।) एतां गृहाण सखि रत्नगृहप्रविष्टां ___ ज्योत्स्नां पिधाय सहसैव गवाक्षमार्गान् । नीलीरसेन सह वर्तय पटके च
चन्द्रः समेतु कियतापि परिक्षयेण ॥ १२ ॥ ज्योत्स्नानिर्गममार्गमुद्रणविधि धत्तोरुकुम्भे मुहु__ स्ताराः कारयतान्यतो बैत मुहुः संमार्जनीनां चयैः । पञ्चेपोर्भजताभिचारचरुतां विस्मार्यतां पञ्चमः
किं चायं पिकमण्डलस्य मयि चेत्सख्यः सुखं वाञ्छथ ॥१३॥ अपि च ।
कलयत दलबन्धं संधिषु न्यस्य सान्द्र ___ ननु जतुरसपकं पङ्कजेन्दीवराणाम् । इह विरहवतीनां जीवितं येन नायं
हरति परिमलश्रीबान्धवो गन्धवाहः ॥ १४ ॥ नयनयुगलवल्गन्नीरसंक्षाल्यमान
स्तनमलयजलेपा सावलेपा कथासु । इति सुभग समग्रामेव रात्रि विधत्ते
निरुजसुलभवस्तुप्रार्थनाभिः सखीनाम् ॥ १५ ॥ अपि च । धूतॊऽयं सखि बध्यतामिति विधुं रश्मिवजैः कर्षति
ज्योत्स्नाम्भः परतः प्रयात्विति रिपुं राहुं मुहुर्याचते । अप्याकाङ्क्षति सेवितुं सुवदना देवं पुरद्वेषिण
भूयो निग्रहवाञ्छया भगवतः शृङ्गारचूडामणेः ॥ १.६ ॥ विदूषकः-एहिं कि मण्णसि । (क)
(क) अधुना किं मन्यसे ।
१. 'वरमुहुः' इत्यादर्शपाठः. २. 'चतुरा' इत्यादर्शपाठः. ३. 'विधू' इत्यादर्शपाठः.
For Private and Personal Use Only