________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३६
काव्यमाला ।
नायिका-(विलोक्य । आत्मगतम् ।) अणब्भए इदं वज्जपडणं पेक्खिदम् । (क)
सखी-महाराअ, सुमरिदव्वो अअं जणो । संपदं अण्णदो गच्छर । (ख) विदूषकः-अझे वि एव्वं जेव्व करेम । (ग)
(नायिका सख्या सह निष्क्रान्ता ।) राजा—(निःश्वस्य ।) कथमपि दिवः पुञ्जीभूय च्युतामिव कौमुदी
कुमुदसुहृदः प्राप्य प्राणाधिकां विधिकारणात् । अहरहरहो प्राप्तं लीलारसोर्मिषु मज्जता क्षणमपि मया न स्वातन्त्र्यं किमत्र विधीयताम् ॥ ४२ ॥
(ततः प्रविशति देवी हारलता च ।) हारलता-कहं भट्टावि इह जेव । (घ)
देवी-राअकज्जविरहे इमस्सि काले इह जेव्व दिणं णिव्विण्णो विणोदइ अजउत्तो अत्ताणअंत्ति । (ङ)
राजा-अपि विज्ञातोऽहं देव्या । विदूषकः-तधा कुविआ वअस्सेण अणुणीदा कधं विप्पदीवं पसज्जिअ अणुसरिस्सदि । (च)
(क) अनभ्रे इदं वज्रपतनं प्रेक्षितम् । (ख) महाराज, स्मर्तव्योऽयं जनः । सांप्रतमन्यतो गच्छावः । (ग) आवामप्येवमेव कुर्वः । (घ) कथं भर्तापीहैव । (ङ) राजकार्यविरहेऽस्मिन्काले इहैव दिनं निर्विण्णो विनोदयत्यार्यपुत्र आत्मानमिति ।
(च) तथा कुपिता वयस्येनानुनीता कथं विप्रतीपं प्रसज्ज्यानुसरिष्यति । १. आदर्शपुस्तकसंशोधकेन हारलतास्थाने देवी, देवीस्थाने च हारलता इति पदं शोधितमस्ति.
For Private and Personal Use Only