________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३५
२ अङ्कः]
कर्णसुन्दरी। नायिका- (सकृतककोपम् ।) अवेहि पडिहासशीले । (इति सासूयमवलोकयति ।) (क)
राजाइयं यदालोकयति पानता हशा नवेन्दीवरदामदीर्घया ।
तदन्यदेवाभ्यधिक रसायनादवमि पुष्पायुधदेहदोहदम् ॥ ४० ॥ (इति पटाञ्चले मृशन् ।)
नायं जनः किमु परिच्छदमध्यमास्ते
यल्लज्जया ननु तन्दरि मुद्रितासि । आलिङ्ग मां परिचितानि चिराद्भवन्तु
देहे हरिन्ति हरिचन्दनपल्लवानि ॥ ४१ ॥ (इत्यालिङ्गितुमिच्छति ।)
नायिका-(स्वगतम् ।) हिअअ, मणोरहाणं वि उपरि वट्टसि । (ख) सखी-दिजउ एदाणं वीसम्भगोही । (इति शनकैः किंचिदपसरति।) (ग) विदूषकः-भोदि, एसा देवी आगदा । (घ)
(सखी ससंभ्रमं निवर्तते । नायिका सभयमुत्तिष्ठति ।) राजा--(सशङ्ख दिशोऽवलोक्य ।) मूर्ख, क्वासौ । विदूषकः-भो, तत्तभोदि कण्णसुन्दरि उदिसिअ देवी उजाणमलंकरेदित्ति भणिदं । (ङ)
राजा-(अग्रतोऽवलोक्य ।) कथं सत्यमेवागता देवी । अहो ब्रह्मबन्धोरमुष्य फलितममङ्गलेन ।
(क) अपेहि परिहासशीले। (ख) हृदय, मनोरथानामप्युपरि वर्तसे । (ग) दीयतामेतयोविस्रम्भगोष्ठी । (घ) भवति, एषा देव्यागता ।
(ङ) भोः, तत्रभवती कर्णसुन्दरीमुद्दिश्य देव्युद्यानमलंकरोतीति भणितम् ।
१, ‘सास्रमवलोकयति' इत्यादर्शपुस्तकपाठः.
For Private and Personal Use Only