________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८
काव्यमाला।
(सस्पृहम् ।)
ताम्बूलावरणोज्झिते विकसितं रागेण बिम्बाधरे
मजत्कजलकालिकेन कलिता कापि च्छविश्चक्षुषा । श्रीरन्यैव निरङ्गरागसुभगेऽप्यङ्गे कुरङ्गीदृशो
विश्राम्यत्वधुना धनुर्विजयते कं नाम नैव स्मरः ॥ २३ ॥ विदूषकः-(विलोक्य ।) कहं एमा णिव्वत्तिदपव्वदीचरणमुस्ससा इमादो कमलसरादो णिग्गदा रहमि सहीए सह लदागम्मन्तरे पविट्ठा।(क)
धूपांशुकेन शनकैः परिमृज्यमान
वेणीगुणा प्रणयपूर्वमुपेत्य संख्या । मध्ये मधुट्ठमवनं वनदेवतेव
तन्वी विवक्षुरिव किंचिदिहोपविष्टा ॥ २४ ॥ (सहर्षम् ।) सखे, सुव्यक्तानि विरहचिह्नानि । तथा हि ।
दग्धासन्नलतावलीकिसलयः श्वासानिलानां चयो
बाप्पाम्भःस्तुतिरालवालकलनायोग्या तरूणामधः । तापो निर्मुदिताब्जिनीदलचयः कोऽप्यङ्गकानां गुरु
काण्डविडम्बिपाण्डिमघनं किं चाननं सुभ्रवः ॥ २५ ॥ विदूषकः-मुलक्खिदं पिअवअस्सेण । 'णीसासाहिणवप्पहारवलिदा कामस्स Yणं सरा
....... । (ख) (क) कथमेषा निर्वर्तितपार्वतीचरणशुश्रूपास्मात्कमलसरसो निर्गता रहसि सख्या सह लतागुल्मान्तरे प्रविष्टा । (ख) सुलक्षितं प्रियवयस्येन । निःश्वासाभिनवप्रहारवलिता कामस्य नूनं सरा ................
........ १. आदर्शपुस्तकेऽस्य श्लोकस्य पादमात्रमेवास्ति.
For Private and Personal Use Only