________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२ अङ्कः]
कर्णसुन्दरी ।
राजा
पुप्पेषोरभिषेकयोग्यमथ वा भर्गाग्निमनात्मनः ___ प्रत्युज्जीवनमेतदम्बुजसरः कम्बुप्रसन्नच्छवि । यत्वामेडितशीतरश्मिकिरणस्यन्दोपमेनामुना
लावण्यामृतनिझरेण सुतनोर्यत्पात्रतां नीयते ॥ १९॥ अपि च ।
आश्चर्य फलितं सरोरुहवने स्थित्वा चिरेण श्रियः
कान्तिः कान्तिसुधाद्रवेण मुतनोर्याता यदत्राधुना । सान्द्रप्रेमवशीकृतस्य नियतं कौमोदकीलक्ष्मणः __ साप्यङ्गे गिरिजेव मन्मथरिपोः कागास्त्रमुत्स्वक्ष्यति ॥ २० ॥ विदूषकः–वणाणिलवेल्लिदविद्रुमकिसलअसरिच्छपप्फुरिदाहरोही अलिविवत्तणमणोहरकरपल्लवा नासग्गलग्गअविसकन्दोदृसलोणलोअणा जादा । (क) गजास्फुरति यदयं दन्तज्योत्स्नाविलासधरोऽधरः
करकिसलियौ मुद्रायोगाद्यदृच्चलिताङ्गुली । मुकुलनविधिर्यन्नीलाव्जद्विपोरपि चक्षुपो
स्तदियमवला ध्यायत्यन्तः किमप्यधिदैवतम् ॥ २१ ॥ विदपक:-(सकौतुकम् ।) भो, कीस एसा मुण्णं पुणो पुणो पाणि णीरमज्झादो आअहदि । (ख)
राजा-(दृष्ट्वा ।) सुतनुरनवलोकयन्त्युपान्ते स्थितमपि काञ्चनकुम्भमम्बुपूर्णम् । क्वचिदपि गतमानसा करेण स्टशति कुचप्रतिबिम्बमम्बुमध्ये ॥ २२ ॥ (क) बनानिलवेल्लितविद्रुमकिसलयसदृक्षप्रस्फुरिताधरोष्ठी अङ्गुलिविवर्तनमनोहरकरपल्लवा नासाग्रलग्नाविस्पष्टनीलोत्पलसलावण्यलोचना जाता । (ग्व) गोः, कस्मादेपा शून्यं पुनः पनः पाणि नीरमध्यादाकर्षति ।
For Private and Personal Use Only