________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४
काव्यमाला ।
स्थातुं सुशक्यमनले पतितुं कृपाण
धारासु वा न तु जनं दयितं विमोक्तुम् ॥ ९ ॥ तत्क्वायमात्मा विनोदयितव्यः ।
विदषकः-भो, तत्थ जेव्व उजाणे गच्छीअदु । तत्थ तरङ्गसालब्भन्तरे चित्तगदं पलोअन्तो सुहं पाविहिसि । (क)
राजा-सखे, युक्तमुक्तम् । तदुपदिश पन्थानम् । विदपकः--इदो इदो । (इति परिक्रामति ।) एसा तरङ्गसाला अलंकरीअदु । (ख)
(उभौ तथा कुरुतः ।) विदपकः--(सवतोऽवलोक्य ।) भो, कहिं सा सामलङ्गी अणङ्गदेवदा आलिहिदा । अह वा अहं चम्मचक्रवू ण पेक्खामि । (ग) राजा-(निःश्वस्य।) कथमुत्प्रोञ्छितं तदनङ्गशस्त्रम् । अहो निर्दया देवी। सिद्धक्षेत्रमिवाङ्गनाकुलगुरोलावण्यसारोच्चय
श्रीसंकेत इव त्रिलोकनयनप्रीतेरिवैको निधिः । धातुश्चन्द्रसहस्त्रसंग्रह इव द्रष्टुं तदेणीदृशो
वकं चित्रनिविष्टमप्यसुलभं कोऽयं विरुद्धो विधिः ॥ १०॥ (विचिन्त्य ।)
विद्वांस्ततो लिखितुमिन्दुमुखी विदग्धः
कोऽन्यो विना कुसुमचापमनल्पशिल्पः । नूनं तदा तदनुबन्धिभिरिन्द्रजाल
___ मुन्मीलितं किमपि मे पुरतो विकल्पैः ॥ ११ ॥ (इति शोकं नाटयति ।)
(क) भोः, तत्रैवोद्याने गम्यताम् । तत्र तरङ्गशालाभ्यन्तरे चित्रगतां प्रलोकयन्सुखं प्राप्स्यसि ।
(ख) इत इतः । एषा तरङ्गशालालंक्रियताम् । (ग) भोः, कुत्र सा श्यामलाङ्गयनङ्गदेवतालिखिता । अथ बाहं चर्मचक्षुर्न पश्यामि ।
For Private and Personal Use Only