________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२ अङ्कः]
कणसुन्दरी।
राजा-अविदग्धोऽसि । पश्य । दीर्घापाङ्गतरङ्गितेन विगलन्नीरं विलोलेक्षणा __ यत्पश्यन्त्यवतंसनालनलिनच्छायामुषा चक्षुषा । तुल्यं वाधिकमन्यदेव मदनस्यास्त्रं त्रिलोकीजथि
व्यापारोऽस्य न यत्र तत्र किमपि प्रेम्णो हि तल्लक्षणम् ।।७।। विदपकः---भो, अण्णं भणामि । जाए कारणादो महन्तेण दुःखेण सअलं जेव्व जामिणि देवी अब्भत्थिदा सा किं त्ति पुणो वि अणुसंधीअदि । जदि तीए कजं ता कि त्ति देवी पीडन्ती अणुणीअदि । अह देवीए कजं ता कि त्ति सा अणुसंधीअदि त्ति । (क) राजा-अयि सखे, शृणु । जनिमुपगता विश्वप्रख्यातनानि कुले पुनः
प्रणयविशदा देवी मोक्तुं मया न हि पार्यते । कथमवितथलाध्यैरङ्गैरसावपि मुच्यतां
रचितकवचः पक्षे यस्याः स्थितः कुसुमायुधः ॥ ८ ॥ तत्कथमयं विरहदाहो मया गमयितव्यः ।
विदूषकः-सव्वधा पिअवअस्सो असुहिदो त्ति करुणं उप्पाइअ सत्थिवाअणपुवअं अणुणीअ सा समप्पीअदु त्ति देवि पुच्छेमि । (ख) राजा-मूर्ख,
नैवं कथंचन कृतानुनयापि देवी
मन्येत मन्युकलुषा मयि केवलं स्यात् । (क) भोः, अन्यद्भणामि । यस्याः कारणान्महता दुःखेन सकलामेव यामिनी देव्यभ्यर्थिता सा किमिति पुनरप्यनुसंधीयते । यदि तया कार्य तत्किमिति देवी पीड्यमानानुनीयते । अथ देव्या कार्य तत्किमिति सानुसंधीयत इति ।
(ख) सर्वथा प्रियवयस्योऽसुखित इति करुणामुत्पाद्य स्वस्तिवायनपूर्वकमनुनीय सा समर्म्यतामिति देवी पृच्छामि ।
For Private and Personal Use Only