SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २२ काव्यमाला । अहो, किमपि कमनीये वयसि वर्तते सुमध्यमा । तथा हि । आभोगः कृत एव किं तु न गतिस्त्यक्ता कुचाभ्यां द्वयी ___ भ्रूलास्यैरवकीर्णमेव मिलितं नो किं तु सम्यग्दृशोः । लीलाभिः परिरब्धमेव गमनं तन्व्या नितम्बोद्गम प्राग्भारेण न किं तु मन्थरपदन्यासस्तदा सूत्रितः ॥ ५ ॥ सखे, अपि सत्यं तरङ्गवत्या वचः । विदूषकः-एदे क्खु मअणमअतिहाविप्पलहा कामिणो उम्मत्ता मह पडिहान्ति । जं पञ्चकवे वि विप्पदिवत्ति कुणन्ति । जदि सव्वधा ण पत्तिजसि ता अकरणिज पि करोमि । बह्मणीए चलणेहिं सवामि । (क) राजा--हृदय, दिष्टया वर्धस । यस्यां रक्तं किल कलयसि क्लान्तिमत्यर्थमेवं नूनं सन्तादिव सरसिजं मजदन्तर्हिमाम्भः । कृत्वा सद्यः श्रवणयुगलं लोलताटङ्करिक्तं सापि स्वैरं विशिखखरली कल्पिता मन्मथेन ॥ ६ ॥ (स्फुरलीला--' इत्यादि पटति ।) विदूषकः-(विहस्य ।) भो, किं पि पुच्छामि । (ख) राजा-किं न पृच्छसि । विपकः-सिणिद्धमुद्धपहाउडणमणुल्लसणमणोहरं हरसुप्फुल्लकवोलमण्डलं संमुहपलोइदं अवगणिअ कण्णन्तिकगामिणिं वर्षं जेव्व दिदि कुविदाणं विअ कामिणीणं कामिणो कीस पसंसन्ति । (ग) (क) एते खलु मदनमृगतृष्णाविप्रलब्धाः कामिन उन्मत्ता मम प्रतिभान्ति । यत्प्रत्यक्षेऽपि विप्रतिपत्तिं कुर्वन्ति । यदि सर्वथा न प्रत्ययसे तदकरणीयमपि करोमि । ब्राह्मण्याश्चरणाभ्यां शपामि । (ख) भोः, किमपि पृच्छामि । (ग) स्निग्धमुग्ध........... मनोहरं होत्फुल्लकपोलमण्डलं संमुखप्रलोकितमवगणय्य कर्णान्तिकगामिनी वक्रामेव दृष्टि कुपितानामिव कामिनीनां कामिनः कुतः प्रशंसन्ति । For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy