SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २ अङ्कः] कर्णसुन्दरी। (इति संस्कृतमाश्रित्य ।) यत्तारारमणोऽपि नि:तिपदं नास्याश्चलच्चक्षुषो__यद्गात्रं शतपत्रपत्रशयनेऽप्युत्फालमुद्वेल्लति । शीतं यच्च कुचस्थलीमलयजं धूलीकदम्बायते किं वान्यत्तदनङ्गमङ्गलमयी भङ्गी कुरङ्गीदृशः ॥ १ ॥ (इत्युक्त्वापसरति ।) विदपकः-(सपरितोषम् ।) भोदि, सणिओअं असुण्णं करेसु । अहं पि पिअव अस्मं वदानेमि । (क) (इति निष्क्रान्तौ ।) प्रवेशकः । (ततः प्रविशति सोत्कण्टो गजा विदूषकध ।) राजाधूमश्यामलितेव तापनवशाच्चामीकरस्य च्छवि__श्चन्द्रो मुक्त इव श्रिया किसलया निर्धीतरागा इव । निःसारेव धनुर्लता रतिपतेः सुप्तेव विश्वप्रभा __ तस्याः किं च पुरो विभान्ति कदलीस्तम्भाः सदम्भा इव ॥ २॥ अपि च । मुग्धाक्ष्याः कति नेन्दवः समुदिता वक्रे स्फुरत्कान्तयो विश्रान्तिः कियतां न लोचनयुगे नीलाम्बुजानां श्रियः । निप्पन्नः कियता न विद्रुमरुचां सारेण विम्बाधरः पीताश्चारुभिरङ्गकैश्च कति न स्निग्धा मधूकत्विषः ॥ ३ ॥ (अनुसंधाय ।) स्फुरल्लीलामालं किमपि रसयोगान्मृगदृशः क्षणं दीर्घापाङ्गप्रणयि यदभन्नेत्रयुगलम् । अहो हृजन्मान्तः स्फुरति बत मे शल्यमिव त द्यदावेगे मोहः परमयमविश्रामविषयः ॥ ४ ॥ (क) भवति, स्वनियोगमशून्यं कुरु । अहमपि प्रियवयस्यं वर्धयामि । For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy