SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १९ २ अङ्कः] कर्णसुन्दरी । जेव्व मुहादो जाणिस्सम् । (पुनरवलोक्य ।) में पेक्खिअ एदाए कि पि अपच्छादिदम्। (निरूप्य सशिरःकम्पम् ।) अत्थि एत्थ वडे जक्खो। भोदु । संभाविअ जाणामि । (इति तथा करोति ।) (क) (ततः प्रविशति तरङ्गवती ।) तरङ्गवती-(अग्रतोऽवलोक्य ।) एस दुहवडू पेक्खिस्सदि एवं सिसिरोवआरम् । ता अण्णदो गच्छामि । (इति तथा गच्छति ।) (ख) विदूषकः-(सत्वरमुपसृत्य ।) भोदि, कीस अण्णदो गच्छीअदि । अहं तुह ससिलेहाए विअ मग्गं पलोएमि । तुमं राहुं व मं पलिहलसि । किं प्रणेदम् । (ग) __तरङ्गवती-अज, कज्जन्तरपज्जाउलहिअअत्तेण ण लक्खिदोसि । पसीददु भवं । (घ) (क) अद्य प्रियवयस्येन दीर्घरोषां देवी प्रसाद्य मे किमपि समादिष्टम् । तदादिष्टार्थदूनो मञ्जिष्टारुणेनारुणसारथिमण्डलेन सान्द्रायमाणेन रजनि जागरितोऽस्मि । न शक्नोमि शयनीयान्निद्रया हठान्मीलदृष्टिरुत्थातुम् । प्रियवयस्यचरणपतनसंतुष्टदेवीप्रसादलब्धैर्मोदकैः पुष्टभूयिष्ठं तिष्ठति मे उदरम् । निभृतमपवरकान्तरे स्वपिमि । अथवा कथं सुप्यते । यत्प्रियवयस्येन तस्या विद्याधरकन्यकायाः प्रवृत्तिं ज्ञातुं किं सापि वयस्यसानुरागा न वेत्याज्ञप्तोऽस्मि । तद्यावद्गत्वा कस्या अप्यन्तःपुरविलासिन्याः सकाशादन्यापदेशेन ज्ञास्यामि । कथमुत्पलतरङ्गा तरङ्गवतीतिनामधेया इत एवागच्छति । भवतु । अस्या एव मुखाज्ज्ञास्यामि । मां प्रेक्ष्यतया किमप्यपच्छादितम् । अस्त्यत्र वटे यक्षः । भवतु । संभाव्य जानामि । (ख) एष दुष्टबटुः प्रेक्षिष्यत एतच्छिशिरोपचारम् । तदन्यतो गच्छामि । (ग) भवति, कुतोऽन्यतो गम्यते । अहं तव शशिलेखाया इव मार्ग प्रलोकयाभि । त्वं राहुमिव मां परिहरसि । किं न्वेतत् । (घ) आर्य, कार्यान्तरपर्याकुलहृदयत्वेन न लक्षितोऽसि । प्रसीदतु भवान् । १. एतावत्पर्यन्तमस्मिन्विदूषकवाक्येऽप्यत्यस्फुटं प्राकृतमस्ति, For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy