SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १ अङ्कः] कर्णसुन्दरी। विदषकः--(भित्तिमवलोक्य सचमत्कारम् ।) अए, का एसा पच्चाएसो उठवसीपमुहाणं अच्छराणं सव्वङ्गलडहा आलिहिदा । (क) राजा-(अवलोक्योत्थाय च ।) एतत्तदेव सितदेवतरुप्रसून सौभाग्यमङ्गकमनङ्गविलासवेश्म । जैत्रः स एव च विलोचनयोर्विलासः सैवेन्दुसुन्दरमुखी लिखितेयमास्ते ॥ १२ ॥ अपि च । सैवोन्मजत्कनककलशप्रेक्षणीयस्तनश्री मूर्तिलोकत्रयविजयिनी राजधानी स्मरस्य । एतच्चक्षुस्तदपि विदलत्केतकीपत्रमित्रं छाया सेयं नियतमधरे विद्रुमोत्सेकमुद्रा ॥ ५३ ॥ विदूषकः-भो, एसा चित्ते केण विलिहिदा । (ख) राजा-मम तावन्मकरकेतुना । इह तु न जाने । विदूषकः--भो, भणामि किं पि जइ मे वअणं करेसि । (ग) राजा-किं न कथयसि । विदूषकः-ओसरीयदु इमादो तरङ्गसालादो तुरिदम् । कदापि देवी एत्थ आअच्छेदि । (घ) राजा-कुपिता कथमागच्छति सौभाग्याभिमानखण्डनानुप्रवेशात् । (क) अये, कैषा प्रत्यादेश उर्वशीप्रमुखाणामप्सरसां सर्वाङ्गलटभालिखिता । (ख) भोः, एषा चित्रे केन विलिखिता । (ग) भोः, भणामि किमपि यदि मे वचनं करोषि । (घ) अपस्रियतामस्यास्तरङ्गशालायास्त्वरितम् । कदापि देव्यत्रागच्छति । For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy