________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
विदपक:-पिअवअस्स, पेक्ख । लाडीतण्डवकेलिखिन्नचलणच्छाआलवं पल्लवं
कङ्केली पअडेदि पाडलितरू जादो पसूणश्चिदो । एवं कुङ्कुमसिक्ककीररमणीगण्डप्पहं चम्पर्क ___ कम्पावेइ विओइणीओ बउलो फुल्लेहि सल्लेहि व ॥४९॥ (क) (इति संस्कृतमाश्रित्य ।) कुर्वाणाः प्राणनाथे प्रणयकलिरुषं जर्जरां गुर्जरीणां
भिन्दानाः सान्द्रमानग्रहपटिममदं मेदपाटाङ्गनानाम् । उन्मीलन्मालवस्त्रीवदनपरिमलग्राहिणो हूणरामा
कामारम्भश्रमाम्भःकणहरणरसोल्लासिनो वान्ति वाताः ॥५०॥ राजा-(सोपहासम् ।) अहो वर्णनाक्रमः । (इति निःश्वस्य समन्तादवलोक्य च ।)
लीलोद्याने चलकिसलयाः शाखिनः खेललोला
श्लिप्यङ्गावलिवलयिता भान्ति यावन्त एते । कोपावेशाहलयितधनुर्बद्धगोधामुलित्र
स्तावद्भ्योऽपि त्रिभुवनजयी धावतीवासमास्त्रः ।। ५१ ॥ एहि । तस्यास्तरङ्गशालाया अभ्यन्तरे क्षणमुपविशावः ।
(तथा कुरुतः ।)
(क) प्रियवयस्य, पश्य । लाटीताण्डवकेलिखिन्नचरणच्छायालवं पलवं
कडूलिः प्रकटयति पाटलितरुर्जातः प्रसूनाञ्चितः । एतत्कुङ्कुमसिक्तकीररमणीगण्डप्रभं चम्पर्क
कम्पयति वियोगिनीर्बकुलः पुष्पैः शल्यैरिव ॥
१. आदर्शपुस्तकेऽस्मिन्मन्दाक्रान्तावृत्ते 'श्लिष्यदृङ्गावलीभिर्वलयितलतिका भान्ति यावन्त एते' इति द्वितीयः पादः स्रग्धरानिबद्धः शोधकेन स्थापितः. आदर्शपाठस्तु न ज्ञातु शक्यते.
For Private and Personal Use Only