________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१ अङ्कः
कणसुन्दरी।
जलिजन्तसहआरङ्करसिलीमुहं रजन्तकण्ठकलअण्ठचारुपञ्चमस्सरमहुरिजन्तं मअणुजाणं पेक्खन्तो णिव्वुई उव्वहिस्सदि भवं । (क) राजा-सहृदयो मे वयस्यः ।
यत्कोकिलाकलरवं कलयत्यनङ्ग
श्रूताङ्कुरं धनुषि यद्विजयास्त्रहेतोः । यच्च स्मितं सुमनसां स समित्प्रपञ्चो
जीवातवे विरहपावकडम्बरस्य ॥ ४८ ॥ विदूषकः--भो, एत्य कहिं पि भविस्सदि देव्ववसेण दसणगोअरे सा तेल्लोकसुन्दरीति भणामि । (ख)
राजा-एवमस्तु । उपदिश पन्थानम् । विदूषकः--इदो सेवागदणरिन्दसहस्ससंकिणं विलाससंचिअतेल्लोकसुन्दरजणं अत्थाणङ्गणं परिहरिअ चउक्किआए खिडिक्किआदो रअणदुआरिआए णीसरीअ कहिं पि एदु भवं । (ग)
(इति परिक्रामतः ।) विदूषकः-इदं तं कोइलपढिजन्तचारुपञ्चमाभिहाणमअणमन्तसंमोहनमढं संततहाणं वसन्तसुहडस्स । ता पविसदु पिअवअस्सो । (घ)
(इति तथा कुरुतः।) (क) भो वयस्य, अभिनवमधुरसतरङ्गितललितलतालिङ्गितकुसुमहसिततरुणतरुमण्डलं कुण्डलितकोदण्डचण्डप्रहारपटुमदनसुभटतीक्ष्णीक्रियमाणसहकाराङ्करशिलीमुखं रज्यत्कण्ठकलकण्ठचारुपञ्चमस्वरमुखरीक्रियमाणं मदनोद्यानं पश्यन्निवृतिमुद्वक्ष्यति भवान् ।
(ख) भोः, अत्र कुत्रापि भविष्यति दैववशेन दर्शनगोचरे सा त्रैलोक्यसुन्दरीति भणामि ।
(ग) इतः सेवागतनरेन्द्रसहस्त्रसंकीर्ण विलाससंचितत्रैलोक्यसुन्दरजनमास्थानाङ्गणं परिहृत्य चतुष्किकायाः गवाक्षाद्रत्नद्वारिकाया निःसृत्य कुत्राप्येतु भवान् ।
(घ) इदं तत्कोकिलपठ्यमानचारुपञ्चमाभिधानमदनमन्त्रसंमोहनमठं(2) संततास्थानं वसन्तसुभटस्य । तत्प्रविशतु प्रियवयस्यः ।
For Private and Personal Use Only