________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सञ्जीवनीचारित्रवर्द्धनी भाव प्रबोधिनी सहिते
४२
कस्य वृषो वृषभः॥ "सुकृते वृषभे वृषः" इत्यमरः । तेनोत्खातेन विदारितेन पट्ट ेन सहोपमेयामुपमातुमह शोभां वक्ष्यसि वोढासि । वहतेर्लट् ॥ "त्रिनयन-" इत्यत्र “पूर्वपदात्संज्ञायामगः" इति णत्वं न भवति "क्षुम्नादिषु च " इति निषेधात् ॥ तस्याः प्रभवमित्यादिना feerat aata वैवाहिको गृहविहारो ध्वन्यते ॥ ५२ ॥
( चारि०) भाग्यलाभमुपदिशति आसीनानामिति - भो जलद तुपारे हिमै गौरं तस्या गङ्गाया एव प्रभवमुत्पत्तिस्थानं अचलं हिमाहिं प्राप्य तस्य हिमवतोऽध्वश्रमविनयने मार्गक मानोदिनिशृङ्गे शिखरे निषण्ण उपविष्टः समशुदीप्रश्वासौ त्रिनयनस्य शम्भोर्वृषेण बलीवनोत्खातश्चासौ पश्च तेनोपमातुमही योग्यां शोभां वक्ष्यसि धास्यसि कीदृशमचलम् । आसीनानामुपविष्टानां मृगाणां कस्तूरिकाहरिणानां नाभिगन्धैर्नाभिविभागामोदः सुरभिताः सुगन्धीकृताः शिला यस्य स तम् । सुरभिशब्दतारकादित्यादितच् । क्तप्रत्ययो न स्यात् । ईशस्य धातोरभावात् । यद्वा सुरभिशब्दात्प्रातिपदिकणिजन्तात् क्तप्रत्ययः । वक्ष्यसीति वह प्रापणे लट् । शुभ्रमुद्दीप्तशुक्लयोरित्यमरः ॥ ५२ ॥
( भाव०) हे मेघ ! ततः परं मार्गश्रमापनयनाय कस्तूरीमृगाणां नाभिगन्धः सुगन्धित - शिलातलं गङ्गायाः प्रभवं हिमवन्तं प्राप्य तस्य शुभ्रे शृङ्गेो निपष्णस्त्वं विषाणोत्खापङ्को हवृषभ इव शोभिष्यसे ॥ ६२ ॥
तं चेद्वायौ सरति सरलस्कन्धसंघट्टजन्मा बाघेतोल्काक्षपितचमरीबालभारो दवाग्निः ।
अर्हस्येनं शमयितुमलं वारिधारासहस्रै
-
रायन्नार्तिप्रशमन फलाः सम्पदो घुत्तमानाम् ॥ ५३ ॥
( सञ्जी० ) तमिति ॥ बायौ वनवाते सरति वाति सति सरलानां देवदारुमाणां एकन्धाः प्रदेशविशेषाः ॥ 'अस्त्री प्रकाण्डः स्कन्धः स्यान्मूलाच्छाखावधेस्तरोः" इत्ममरः ॥ तेषां संघट्टनेन संघर्षणेन जन्म यस्य स तथोक्तः ॥ जन्मोत्तरपदत्वाव्यधिकरणोऽपि बहुव्रीहि:साधुरित्युक्तम् ॥ उल्कामिः स्फुलिङ्गैः क्षपिता निर्दग्धाश्रमरीणां बालभाराः केशसमहा येन । व एवाभिर्दवानिर्वह्निः ॥ "वने च वनवह्नौ च दवो दाव इतीष्यते" इति यादवः ॥ तं हिमाद्रि बात चेत्पीडयेद्यदि । एनं दवाग्मिं वारिधारासहस्रैः शमयितुमर्हसि ॥ युक्तं चैतदित्याह--- उत्तमानां महतां संपदः समृद्धय आपन्नानामार्तानामार्तिप्रशमनसापन्निवारणमेव फलं प्रयोजनं arir तास्तयोक्ता हि । अतो हिमाचलस्य दावानलस्त्वया शमयितव्य इति भावः ॥ ५३ ॥
( चारि०) तमिति - वायौ सरति सति दवाग्निर्दावानलस्तं पर्वतं चेहावेत दहेत् । कीटशः । सरलस्य देवदारोः स्कन्धानां प्रकाण्डानां सङ्घट्टात्सङ्घर्षात जन्म यस्य स तादृशः । तथोल्काभिर्वह्निकणसमूहैः क्षपितो दग्धश्चमरीणामरण्यमृगीणां बालानां पुच्छकेशानां भारः प्रयो येन सः । तर्हि त्वं वारिधारासहस्रैरनं दवानलमलमत्यर्थं शमयितुं निर्वापयितुमर्हसि । एतदेवार्थान्तरन्यासेन द्रढयति । हि यतः उत्तमानां सतां सम्पद आपन्नानामापद्दतानामातिः पीडा तस्याः प्रशमनमेव फलं यासां ताः । यद्यपि दुनोरनुपसर्ग इति प्रत्यये दाव इति भवितव्यम् । तथापि पचादिपाठादचि दव इत्यपि भवति । दवो दावो वनवह्निरित्यभिधानचिन्तामणिः ॥ ५३ ॥
( भाव० ) अथ हे मेध ! तत्र वनवायुना वर्द्धितः सरलाख्यतरस्कन्धसङ्घर्षोत्पन्नो दवाग्निस्तं हिमवन्तं पीडयेचेत् त्वं स्वकीयैर्धारासम्पातैस्तं प्रशमय । पीडितपीडाप्रशमनेकफला उत्तमानां सम्पदो भवन्ति ॥ ५३ ॥
For Private And Personal Use Only