________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
मेघदृते-पूर्वमेवः। ये संरम्भोत्पतनरभसाः स्वाङ्गभङ्गाय तस्मि
मुक्तावानं सपदि शरभा लङ्घयेयुभवन्तम् । तान्कुर्वीथास्तुमुलकरकावृष्टिपातावकीर्णान्
के वा न स्युः परिभवपदं निष्फलारम्भयत्नाः ।। ५४ ॥ ( सी० ) य इति ॥ तस्मिहिमाद्रौ संरम्भः कोपः ॥ “संरम्भः संक्रमे कोप” इति शब्दार्गव ॥ तेनोत्पतने उत्प्लवने रभसो वेगो येषां ते तथोक्ताः "स्भसो वेगहर्षयोः' इत्यमरः॥ ये शरभा अष्टाददमृगविशेषाः ॥ "शरभः शलभे चाष्टापदे प्रोक्तो मृगान्तरे” इति विश्वः ॥ मुक्तोऽध्वा शरभोत्प्लवनमार्गों येन तं भवन्तं सपदि स्वाङ्गभङ्गाय लङ्घन्येयुः संभावनायां लिङ् ॥ भवतोऽतिदूरत्वात्स्याङ्गभङ्गातिरिक्तं फलं नास्ति लाग्नस्येत्यर्थः। ताशरभांस्तुमुलाः संकुलाः करका वर्षांपलाः ॥ "वर्षीपलस्तु करका" इत्यमरः ॥ तासां घृष्टिस्तस्याः पातेनावकीर्णान्विक्षिप्तान्कुर्वीथाः कुरुष्व ॥ विध्यर्थे लिङ् ॥ क्षुद्रोऽप्यधिक्षिपन्प्रतिपक्षः सद्यः प्रतिशेप्तव्य इति भावः । तथा हि । आरभ्यन्त इत्यारम्भाः कर्माणि तेषु यल उद्योगः स निष्फलो येषां तथोताः । निष्फलकापक्रमा इत्यर्थः । अतः के वा परिभवपदं तिरस्कारपदं न स्युन भवन्ति । सर्व एव भवन्तीत्यर्थः । यदन्न “धनोपलस्तु करके” इति याश्ववचनात्करकशब्दस्य नियत'लिङ्गताभिप्रायेण 'करकाणामवृष्टिः" इति केषां चियाख्यानं तदन्ये नानुमन्यते । “वर्षीपलस्तु करका" इत्यमरवचनव्याख्याने क्षीरस्वामिना "कमण्डलौ च करकः सुगते च विनायका" इति नानाथे पुंस्यपि वक्ष्यतीति वदतोभयलिङ्गताप्रकाशनात् । यादवस्य तु पुंलिङ्गताविधाने तात्पयं न तु स्त्रीलिङ्गतानिषेध इति न तद्विरोधोऽपि । “करकस्तु करके स्याहाडिमे च कमण्डलो। पक्षिभदे कर चापि करका च धनापले" इति विश्वप्रकाशवचने तूभयलिङ्गता व्यक्तवति न कुत्रापि विरोधवार्ता। अत एव रुद्रः--"वपीपलस्तु करका करकोऽपि च दृश्यते" इति ॥५४॥
(चारि०) पीडानिषेधोपायमुपदिशन्नाह । य इति-भो मेव तस्मिन्गिरी ये शरभाः अष्टापदाः स्वाङ्गभङ्गाय निजगाविनाशाय संरम्भण क्रोधेनोत्पतनं रभसोऽर्द्धगमनवेगिनःसन्तः। मुक्ताध्यानं शरमाणामुत्पतनमागं हित्वा दूरगामिनं भवन्तं लान्येयुः त्यक्तमार्गत्वात् त्वयि शरभाणां लान न सम्पद्यते । किन्तु तेषां देहभङ्ग एव भावीति भावः। भी जलद तान् शरभान् तुमुलो रौद्रश्चासौ करकाणां वर्षांपलानां आसमन्तादृष्टिपातस्तेनावकीर्णान् अवक्षिप्तान् कुळथाः । उक्तमेवार्थान्तरन्यासेन प्रतिपादयति । निःफलाः फलरहितं आरम्भा यत्राः कर्मव्यापारा येषां ते । के वा प्राणिनः परिभवस्य न्यक्कारस्यस्पदमास्थानं न स्युः । कुत्रापि - टिहासावकीर्णानिति पाठः । तत्र वृष्टेरेव हासो हास्यं तेनावकीर्णान् । वर्षांपलस्तु करकः । शरभः कुक्षरात्पादकोऽष्टपादपीत्यभिधानचिन्तामणिः ॥ ५४॥
(भाव०) हे मेघ ! तत्र हिमादौ परित्यक्तमार्गमपि भवन्तं लहयितुं ये शरभाः प्रवत्ता भवेयुस्तान् करकावृष्टिद्वारा दण्डय । निष्फलारम्भाः सर्वेऽपि परिभवभाजो भवन्ति ॥१४॥
तत्र व्यक्तं दृषदि चरणन्यासमर्धेन्दुमौले
शवसिद्धैरुपचितबलिं भक्तिनम्रः परीयाः । यस्मिन्दृष्टे करणविगमादूर्ध्वमुद्धृतपापाः
संकल्पन्ते स्थिरगणपदमाप्तये श्रद्दधानाः ॥ ५५ ॥
For Private And Personal Use Only