________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
मेघदूते-पूर्वमेघः । गङ्गा गोर्या वक्रे मुखे भृकुटिकौटिल्य फेनैविहस्येन्दौ भालचन्द्रे । ऊर्मय एव हस्ता यस्याः सा सती शम्भोर्म हेशस्य केशग्रहणमधिचक्रे इति । तस्याः केशग्रहणविलोकनेन क्रुद्धां गौरी डिण्डीरपिण्डकापट्येन हसन्तीव या भातीति तात्पर्यम् । तव स्पशें तस्याः श्रीलाभमाह ॥ ४९ ॥ ५० ॥
(भाव० ) हे मेघ । कौरवपाण्डवस्नेहेन महाभारतसमरविमुखो बलरामस्तीर्थयात्राप्रसड्रेन सुरम्परित्यज्य यस्याः सरस्वतीनद्या जलमसेवत, तस्या जलम्पीत्वा बहिः कृष्णोऽपि त्वमन्तःशुद्धो भविष्यसि ॥ ४९ ॥
(भाव०) हे मेघ । ततः परं कुरुक्षेत्राद कनखलादिनिकटे हिमवतोऽवतीणी सगरसुतपावनीं गङ्गां व्रज। या फेनराजिभिर्गौरी कुटिभङ्गं हसन्तीव शम्भोः शिरोऽधिरह्यस्थिता ऽस्ति॥१०॥ तस्याः पातुं सुरगज इव व्योम्नि पश्चाधलम्बी
त्वं चेदच्छस्फटिकविशदं तकयेस्तिर्यगम्भः । संसर्पन्त्या सपदि भवतः स्रोतसि च्छाययासौ
__ स्यादस्थानोपगतयमुनासङ्गमेवाभिरामा ।। ५१ ॥ ( सञ्जी० ) तस्या इति ॥ सुरगज इव कश्चिदिग्गज इव व्योम्नि पश्चादर्घ पश्चाघम् । पश्चिमार्थमित्यर्थः ॥ पोदरादित्वात्साधुः ॥ तेन लम्बत इति पश्चार्धलम्बी सन्पश्चार्धमागेंण योन्नि स्थित्वा । पूर्वाधन जलोन्मुख इत्यर्थः । अच्छस्फष्टिकविशदं निर्मलस्फटिकावदानं तस्या गङ्गाया अम्भस्तियक्तिरश्चीनं यथा तथा पातं त्वं तक्यर्विचारयेश्चेत् । सपदि स्रोतसि प्रवाहे संसर्पन्त्या संक्रामन्त्या भवतश्छायया प्रतिबिम्बेनासौ गङ्गा अस्थाने प्रयागादन्यत्रोपगतः प्राप्तो यमुनारंगमो यया सा तथाभूतेवाभिरामा स्यात् ॥ ११॥
(चारि०) तस्या इति-हे मेघ सुरगज इव व्योनि तिर्यक पश्चाईलम्बमानः सन् त्वं तस्या गङ्गाया अच्छस्फटिकवद्विशदं अम्भः पातुं तर्विचारयेः । चेतहि भवतः स्रोतसि प्रवाहे सपदि शी संसर्पन्त्या अवगाहमानया छायया प्रतिबिम्बन करणभूतेन सा गङ्गाऽस्थाने प्रयागव्यतिरिक्त स्थाने उपगतः प्राप्तो यमुनासङ्गमो यया सेवाभिरामा मनोज्ञा स्यात् ॥११॥
(भाव० ) हे मेघ ! ततः परं गङ्गाया जलं पातुं त्वयि लम्बमाने सति स्रोतसि प्रस्तया त्वच्छाययाऽऽवृताऽसौ गङ्गा प्रयागादितरत्राऽपि यमुनासङ्गत्तेव शोभिष्यते ॥ २१॥ आसीनानां सुरभितशिलं नाभिगन्धैर्मूगाणां
तस्या एवं प्रभवमचलं प्राप्य गौरं तुषारैः । वक्ष्यस्य ध्वश्रमविनयने तस्य शृङ्गे निषएणः
शोभा शुभ्रत्रिनयषोत्खातपङ्कोपमेयाम् ॥ ५२ ।। (सञ्जी० ) आसीनानामिति!॥ आसीनानामुपविष्टानां मृगाणां कस्तूरिकामृगाणाम् । अन्यथा नाभिगन्धानुपपत्तेः । नाभिगन्धैः कस्तूरीगन्धैस्तेषां तदुद्भवत्वात् । अत एव मृगनाभिसंज्ञा च ॥ "मृगनाभिर्मगमदः कस्तूरी च” इत्यमरः ॥ अथवा नाभयः कस्तूर्यः ॥ "नामिः प्रधाने कस्तूरीमदे च क्वचिदीरितः" इति विधः ॥ तासां गन्धैः सुरभिताः सुरभीकृताःशिला यस्य तं तस्या गङ्गाया एव प्रभवत्यस्मादिति प्रभवः कारणम् । तुषारंगौरं सितम् ॥ "अबदातः सितो गौरः" इत्यमरः ॥ अचलं प्राप्य। विनीयतेऽनेनेति विनयनम् ॥ करणे ल्युट् ॥ अध्वश्रमस्य विनयनेऽपनोदके तस्य हिमाद्रेः भंगे निषण्णः सन् । शुभ्रो यस्रिनयनस्य त्र्यम्ब
५ मेघ०
For Private And Personal Use Only