________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२ सीवनीचारित्रवर्द्धनी भावप्रबोधिनीसहितेतलं बाष्पमूष्माण मुञ्चतः । भवत इति पाठे कर्तरि षष्ठी। प्रियसखमिति राजाहः सखिभ्यष्टच् । बाष्पमूष्माश्रु कशिपु इत्यमरः । मेखला मध्यभागोद्रेरित्यभिधानचिन्तामणिः ॥१२॥ . (भाव०) दूरदेश गच्छन् त्वं तव प्रिय सखमेनं चिद्रकूटादि समालिंग्य गमनानुज्ञां पृच्छ। योऽसौ पर्वतो मध्यभागे जगद्वन्यानि रघुपतिपदचिन्हानि धत्ते । किञ्च, प्रतिवर्ष वर्षाकाले भवत्सङ्गमे जाते सति चिरविरहजं बाष्पं विमुञ्चन् यः स्नेहं व्यञ्जयति ॥ १२ ॥ संप्रति तस्य मार्ग कथयतिमार्ग तावछृणु कथयतस्त्वत्प्रयाणानुरूपं
संदेश मे तदनु जलद श्रोष्यसि श्रोत्रपेयम् । खिन्नः खिन्नः शिखरिषु पदं न्यस्य गंतासि यत्र
क्षीणः क्षीणः परिलघु पयः स्रोतमां चोपभुज्य ।। १३ ।। (सञ्जी०) मार्गमिति ॥ हे जलद ! तावदिदानी कथयतः । मत्त इति शेषः । त्वत्प्रया. णस्यानुरूपमनुकूलं मार्गमध्यानम् ॥ "मार्गो मृगपदे मासि सौम्यक्षेऽन्वेषणेऽध्वनि" इति यादवः ॥ शृणु । तदनु मार्गश्रवणानन्तरं श्रोत्राभ्यां पेय पानाहम् । अतितृष्णया श्रोतव्यमित्यर्थः ॥ पेयग्रहणात्संदेशस्यामृतसाम्यं गम्यते ॥ मे संदेशं वाचिकम् ॥ "संदेशवाग्वाचित स्यात्" इत्यमरः ॥ श्रोष्यसि । यत्र मार्गे खिनः खिन्नोऽभीक्ष्णं क्षीणबलः सन् ॥ "नित्यवी. प्सयोः" इति नित्या) द्विर्भावः ॥ शिखरिषु पर्वतेषु पदै न्यस्य निक्षिप्य । पुनर्बललाभाथ क्वचिद्विश्रम्येत्यर्थः । क्षीणः क्षीणोऽभीक्ष्णं कृशाङ्गः सन् ॥ अत्रापि कृदन्तत्वात्पूर्ववद् द्विरुक्तिः॥ स्रोतसां परिलघु गुरुत्वदोषरहितम् । उपलास्फालनखेदितत्वात्पथ्यमित्यर्थः । तथा च वाग्भ2:-"उपलास्फालनक्षेपविच्छेदैः खेदितोदकाः । हिमवन्मलयोभूताः पथ्या नद्यो भव. न्त्यमूः॥ इति ॥ पयः पानीयमुपभुज्य शरीरपोषणार्थमभ्यवहृत्य च गन्तासि गमिष्यसि ॥ गमेलृट् ॥ १३ ॥
(चारि०) मार्गमिति-जलं ददातीति जलदस्तस्य सम्बुद्धौ भो जलद मेघ ! तावत्प्रथमतः तव मार्ग शृणु पन्थानमाकर्णय । किं विधं त्वप्रयाणानुरूपं तव गमनयोग्यं तइनु मार्गाकर्णनपश्चात् कथयतो मे सन्देश वाचिकं श्रोष्यसि । किं विधं सन्देशं श्रोत्रपेयम् । मार्ग कल्य शृगोमि यन्त्र गन्तासि गमिष्यसि । किं कृत्वा। खिन्नः खिन्नः मार्गायासक्लान्तः सन् शिखरिषु पर्वतेषु पदं न्यस्य । पुनः किं कृत्वा । जलदानात् क्षीणः २ सन् स्रोतसां सरित्प्रवाहाणां पयश्चोप. भुज्य ॥ १३ ॥ .
(भाव) हे मेघ ! त्वं गन्तव्यं माग तावत्प्रथम शृणु। पश्चात् कान्तायै सन्देश श्रोष्य. सि। यत्र मार्गश्रमलान्तस्त्वं पर्वतेषु विश्रम्य क्षीणाङ्गः सन् परिलघु निर्झरपयः पीत्वा गमिव्यसि तं, मार्ग वक्ष्यामि । शृणु ॥ १३ ॥ अद्रेः शृङ्गं हरति पवनः किंस्त्रिदित्युन्मुखीभि
दृष्टोत्साहश्चकितचकितं मुग्धसिद्धाङ्गनाभिः । स्थानादस्मात्सरसनिचुलादुत्पतोदङ्मुखः खं
दिङ्नागानां पथि परिहरनस्थूलहस्तावलेपान् ॥ १४ ॥ ( सञ्जी०) अद्वेरिति ॥ पवनो वायुद्धेश्चित्रकूटस्य शृङ्ग हरति किंस्वित् । किस्विच्छब्दो विकल्पवितार्थादिषु पठितः ॥ इति शङ्कयोन्मुखीभिचतमुखीभिः ॥ "स्वाङ्गाचोपसर्जनाद
For Private And Personal Use Only