________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मेघदते-पूर्वमेघः ।
११ ति। शिलीन्ध्राणां भाविसस्यसम्पत्तिसूचकत्वादिति भावः । तदुक्तं निमित्तनिदाने "का. लाभ्रयोगादुदिताः शिलीन्ध्राः सम्पन्नसस्यां कथयन्ति धात्रीम्" इति ॥ तच्छ्रवणसुभगं श्रोत्रसुखम् । लोकस्येति शेषः। ते तव गर्जितं श्रुत्वा मानसोका मानसे सरस्युन्मनसः । उत्सुका इति यावत् ॥ "उत्क उत्सुक उन्मनाः इति निपातात्साधु ॥ कालान्तरे मानसस्य हिमदुष्टत्वाद्धिमस्य च हंसानां रोगहेतुत्वादन्यत्र गता हैसाः पुनर्वर्षासु मानसमेव गच्छन्तीति प्रसिद्धिः । बिसकिसलयानां मृणालाग्राणां छेदैः शकलैः पाथेयवन्तः । पथि साधु पाथेयं पथि भोज्यम् । “पथ्यतिथिवसतिस्वपते । तद्वन्तः । मृणालकन्दशकलसम्बन्धवन्त इत्यर्थः । राजहंसा हंसविशेषाः ॥ "राजहंसास्तु ते चञ्चुचरणैाहितैः सिताः" इत्यमरः ॥ नभसि व्योम्नि भवतस्तव आ कैलासात्कैलासपर्यन्तम् ॥ पदद्वयं चैतत् ॥ सहायाः सयात्राः॥ "सहायस्तु सयात्रः स्यात्" इति शब्दार्णवे ॥ संपत्स्यन्ते भविष्यन्ति ॥ ११ ॥
(चारि०) कर्तुमिति-भो मेघ ! आकैलासात् कैलासगिरिपर्यन्तं राजहंसाः विमलविहङ्गमा नभसि आकाशे भवतस्तव सहायाः सम्पत्स्यन्ते साधं भविष्यन्ति । किं विशिष्टाः मानसोत्काः मानसं सरः प्रति गन्तुकामाः पुनः किं विशिष्टाः बिसानां मृणालानां किसलयानि पल्लवास्तेषां छेदैः खण्डैः पथि योग्य पाथेयं मार्गसम्बलम् । तदेषामस्ति ते बिसकिसलयच्छेद. पाथेयवन्तः । किं कृत्वा, ते श्रवणसुभगं श्रोत्रसुखं तद्गजितं स्तनितं श्रुत्वा निशम्य । तत्किम् यच्च महीं उगतानि शिलान्ध्राण्येव कन्दलीपत्राण्येव छत्राणि यत्र सा तादृशीं कर्तुं प्रभवति त्वयि शब्दायमाने मह्यां छत्राकाराणि शिलीन्ध्राणि विकन्ति ॥ ११ ॥
(भाव० ) भुवि शिलीन्ध्रकुसुमसम्पादकममोधं ते मधुर गर्जितं श्रुत्वा कैलासपर्यन्तं बिसच्छेदपाथेययुक्ताः हंसास्त सहचारिणो भविष्यन्ति ॥ ११ ॥ आपृच्छस्व प्रियसखममुं तुङ्गमालिझ्य शैलं
वन्द्यैः पुंसां रघुपतिपदैराङ्कितं मेखलासु । काले काले भवति भवतो यस्य संयोगमेत्य
___ स्नेहव्यक्तिश्चिरविरहजं मुश्चतो वाष्पमुष्णम् ॥ १२ ॥ (सञ्जी० ) आपृच्छस्वेति ॥ प्रियं सखायं प्रियसखम् ॥ “राजाहः सखिभ्यष्टच्” इति टच समासान्तः ॥ तुङ्गमुन्नतं पुंसां वन्द्यैराराधनीयै रघुपतिपदै रामपादन्यासमंखलास कटकेष ॥ "अथ मेखला श्रोणिस्थानेऽद्रिकटके कटिबन्धेभबन्धने" इति यादवः ॥ अतिं चिह्नितम् । इत्थं सखित्वान्महत्त्वात्पवित्रत्वाञ्च संभावना हम् । अमुं शैलं चित्रकूटाद्विमालियाच्छस्व साधो यामीत्यामन्त्रणेन सभाजय ॥ "आमन्त्रणसभाजने । आप्रच्छन्नम्" इत्यमरः ।। "आङि नुप्रच्छ्योरुपमख्यानम्" इत्यात्मनेपदम् ॥ सखित्वं निर्वाहयति-काल इति ॥ काले काले प्रतिप्रावृट्कालम् । सुहृत्समागमकालश्च कालशब्देनोच्यते ॥ वीप्सायां द्विरुक्तिः। भवतः संयोग संपर्कमेत्य चिरविरहजमुष्णं बाप्पमूष्माणं नेत्रजलं च ॥ "बाष्पो नेत्रजलोप्मणो" इति विश्वः ।। मुञ्चतो यस्य शैलस्य स्नेहव्यक्तिः प्रेमाविर्भावो भवति । स्निग्धा हि चिरविरहसंगतानां बाष्पपातो भवतीति भावः ॥ १२ ॥
(चारि०) आपृच्छस्वेति-भो मेघ ! रघुपतेः श्रीराम वन्द्रस्य पदैश्चरणन्यासैमेखलास मध्यप्रदेशेषु अडित विह्नतं तुङ्गमुन्नतममुं शेलं रामगिरिमालिङ्गयाश्लेषं विधायापृच्छस्व । कीदृशैः पुंसां प्राणिनां वन्द्यैनमस्कर्तुं योग्यैः कर्तरि षष्ठी । कोदृशं प्रियश्चासौ सखा च प्रियसखस्तम् । काले काले सर्वस्मिन्समागमसमये भवता त्वया संयोग सम्बन्धमेत्य प्राप्य यस्य पर्वतस्य स्नेहव्यक्तिः प्रेमप्रादुर्भावो भवति । कीडशस्य चिरं विरहाद्वियोगान्जातमुष्णमशी.
For Private And Personal Use Only