________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१० सञ्जीवनीचारित्रवर्द्धनी भावप्रबोधिनीसहितेप्रेरयति । सगर्वोऽयं चातकश्च ते वामभागे मधुरं कूजति। किञ्च नयनलोभनीयरूपं त्वामेता बलाका गर्भाधानक्षणपरिचिताः खे बद्धपयः सेविष्यन्ते ॥९॥ न च तस्या नाशाद् व्रतस्खलनाद्वा निरर्थकस्त्वत्प्रयास इत्याह___तां चावश्यं दिवसगणनातत्परामेकपनी.
__ मव्यापन्नामविहतगतिद्रक्ष्यसि भ्रातृजायाम् । आशाबन्धः कुसुमसदृशं प्रायशो ह्यङ्गनानां
सद्यः पाति प्रणयि हृदयं विप्रयोगे रुणद्धि ॥ १० ॥ (सञ्जी०) तां चेति ॥ हे मेघ! दिवसानामवशिष्टदिनानां गणनायां संख्याने तत्परा. मासक्ताम् ॥ “तत्परे प्रसितासक्तौ” इत्यमरः ॥ अत एवाव्यापन्नाममृताम् । शापावसाने मदागमनप्रत्याशया जीवन्तीमित्यर्थः । एकः पतिर्यस्याः सैकपत्नी ताम् । पतिव्रतामित्यर्थः ॥ "नित्यं सपत्न्यादिषु" इति की नकारश्च ॥ भ्रातुर्भे जायां भ्रातृवन्निःश दर्शनीयामित्या. शयः । तां मत्प्रियामविहतगतिरविच्छिन्नगातः सन्नवश्यं द्रक्ष्यसि चालोकयिष्यस एव ॥ सथा हि । आशातितृष्णा "आशा दिगतितृष्णयोः" इति यादवः ॥ बध्यतेऽनेनेति बन्धो वन्धनम् । वृन्तमिति यावत् । आशैव बन्ध आशाबन्धः कर्ता ॥ प्रणयि प्रेमयुक्तम् । अत एव कुसुमसदृशम् । सुकुमारमित्यर्थः । अत एव विप्रयोगे विरहे सद्यःपाति सद्योभ्रंशनशी लमङ्गनानां हृदयं जीवितम् । “हृदयं जीविते चित्ते वक्षस्याकूतहृद्ययोः" इति शब्दार्णवे ॥ प्रायशः प्रायेण रुगद्धि प्रतिबध्नाति ॥ अर्थान्तरन्यासः ॥१०॥
(चारि०) तामिति-हे मेघ ! ता भ्रातृजायां प्रातुम स्त्रियमवश्यं निश्चितं द्रक्ष्यसि वि. लोकयसि । कीदृशस्त्वं, अविहताऽविनिता गतिर्गमनं यस्य स तथा । कीदृशी, दिवसणना एकद्वयादि सड्यानं तत्र तत्परा सावधाना तां प्रोषितस्य महल्लभस्येयन्तो वासरा गता इयन्तोऽवशिष्टा इति गणयन्तीमित्यर्थः । एतेन मद्विरहे सा न परासुर्भवितेति वियोगावधेनि-- यतत्वात् । नत्वन्यरत्ता भविष्यतीत्याशङयाह-एकः पतिर्यस्याः सा ताम् । अथवा एकाऽस. पत्नीका चासौ पत्नी । यज्ञसंयोगाहीचेति कर्मधारयः । पत्यु! यज्ञसंयोगे। कदाचिद्विरहे विपन्ना स्यादित्याह-पुनः किं विधां अव्यापन्नां अत्यक्तप्राणाम् । त्वया कथं ज्ञातं तदाह-हि यतः प्रायशो बाहुल्येन आशाबन्धो विप्रयोगे वियोगे विश्लेषे सद्यः पाति तत्क्षणादेव पतनशील अङ्गनानां हृदयं रुणद्धि । किविधं कुसुमसदृशं पुष्पवत्सुकुमारं, पुनः किविधं प्रणयि प्रणययुक्तम् । एके मुख्यान्यकेवला इत्यमरः । अथ चोक्तिः । यथा ऽऽशाबन्धः मर्कटवासकः सद्यः पाति कुसुम रुणद्धि ॥ आशबन्धः समाश्वासे तथा मर्कटवासके इति मेदिनीकारः ॥१०॥
( भाव०) तत्र गत्वा विरहावशिष्टदिवसान् गणयन्ती पतिव्रतामसपत्नी जीवन्ती में जायामप्रतिबद्धगतिस्त्वं द्रक्ष्यसि । वियोगे सद्यो भङ्गुरमपि वनितानां हृदयं प्रियप्रत्यागम. नाशाबन्ध एव धारयति ॥ १० ॥ सम्प्रति सहायसंपत्तिश्चास्तीत्याहकर्तुं यच्च प्रभवति महीमुच्छिलीन्ध्रामवन्ध्यां
तच्छुत्वा ते श्रवणसुभगं गर्जितं मानसोकाः । आ कैलासाद्रिसकिसलयच्छेदपाथेयवन्तः
___ संपत्स्यन्ते नभसि भवतो राजहंसाः सहायाः ॥ ११॥ (सक्षी० ) कर्तुमिति ॥ यद् गर्जितं कर्तृ महीमुच्छिलीन्भ्रामुद्भूतकन्दलिकाम् ॥ “कन्दल्यां च शिलीन्ध्रः स्यात्” इति शब्हार्णवे ॥ अत एवावन्ध्यां सफलां कर्तुं प्रभवति शक्नो
For Private And Personal Use Only